पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

“ता उत्तरेणाहवनीयं प्रणयति । योषा वा आपो वृषाभिः । मिथुनमेवैतत्प्रजननं क्रियते । एवमिव हि मिथुनं कृतम् । उत्तरतो हि स्री पुमांसमतिशेते ।” इति शतपथोक्तयोषावृषन्यायेन सौम्याया अपां दिशो योधात्वं वाम्यया अमिदिशश्च वृषत्वं प्रतिपद्य तत्रांशानुरोधिदशरेखाभिप्रायेण विराट्वमाख्यातं दृश्यते श्रुतिस्मृत्यादिषु । तथा च विषुवदहः-संस्थानाभिप्रायेण तावत् “यथा वै पुरुषः एवं विषुवान् । तस्य यथा दक्षिणोऽर्घः, एवं पूर्वोऽध विषुवतः । यथोत्तरोऽर्धः, एवमुत्तरोऽध विषुवतः । तस्मादुत्तर इत्याचक्षते । प्रवाहुः सतः शिर एव विषुवान् । विदलसंहित इव वै पुरुषः । तद्धापि स्यूमेव मध्ये श्रीष्म विज्ञायते ।” तैत्तिरीयकेऽपि 'एकविंश एष भवति । एतेन वै देवा एकविंशेनादित्यमित उत्तमं सुवर्ग लोकमारो हयन् । स वा एष इत एकविंशः । तस्य दशावरस्तादहानि दश परस्तात् । स वा एष विराज्युभयतः प्रतिष्ठितः । विराजि हि वा एष उभयतः प्रतिष्ठितः । तस्मादन्तरेमौ लोकौ यन् सर्वेषु सुवर्गेषु लोकेष्वभितपत्रेति” “देवा वा आदित्यस्य सुवर्गस्य लोकस्य पराचोऽतिपातादबिभयुः । तं छन्दोभिरद्दहन् घृत्यै । देवा वा आदित्यस्य सुवर्गस्य लोकस्यावाचोऽवपातादबिभयुः । तं पञ्चभी रश्मिभिः रुदवयन् ॥” इत्याद्याम्रायते ॥ ‘सहस्रशीर्षा पुरुषः सहस्राक्षुः सहस्रपात् । स भूमेिं सर्वतः स्पृष्टत्वा अत्यतिष्ठद्दशाङ्गुलम् ॥ ’ ततो विराडजायत विराजोऽधिपूरुषः । स जातोऽल्यरिच्यत पश्चाद्भमिथो पुरः ॥ ’ इत्येवमादयो मत्रवर्णा अप्यमुमर्थ द्रढयन्ति । स्मर्यते चायमर्थो मन्वादिभिरपि ‘द्विधा कृत्वात्मनो देहमधेन पुरुषोऽभवत् । अर्धेन नारी तस्यां स विराजमसृजत्प्रभुः ॥ ’ इत्यादिना । तदित्थं तावदशानां दशंकस्य दशकस्यैकैकमक्षरत्वगभिप्रेत्य बृहतीत्वमाख्यातम् । अन्यत्र पुनः ‘इयं वै मा, अन्तरिक्षं प्रमा, असौ प्रतिमा, द्वादश द्वादशाभिता उप दधाति । तत् षट्त्रंशत् । षट्त्रंशदक्षरा बृहती' इत्येवमाचक्षाणेन पौर्णमास्यष्टकामावा स्यानां देवानामेवाक्षरत्वमभिप्रेत्य बृहतीत्वं संसाध्यते । एवं द्वादशाहस्तुतै ‘तदाहुः-यदन्यानि चच्छन्दांसि वर्षीयांसि भूयोऽक्षरतराणि अथ कस्मादेतां बृह तीत्याचक्षते इति । एतया हि देवा इमॅलोकानाश्रवत । ते वै दशभिरेवाक्षरैरिमं लोक