पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तेषां विंशतेिरेकोना महाभूतेषु पञ्चसु । चतुर्विशतिरुद्दिष्टा गायत्री लोकसंमतं । य एतां वेद गायत्रीं पुण्यां सर्वगुणान्विताम् । तत्त्वेन भरतश्रेष्ठ स लोके न प्रणश्यति ॥’ इत्यादिना प्रबन्धेन पञ्चभिरचेतनजातीयैः, पञ्चभिश्धान्तचैतन्यजातीयैः स्थावर संशैः, तथा चतुर्दशभिश्वतनजातीयैः प्राणिभिरवच्छेदाचतुर्विंशत्यक्षरा समाख्याता । एवमेवान्यत्रान्यत्र सर्वत्रापि छन्दोव्यवहारः श्रौतः स्मात वा सर्वोऽपि वाचिका क्षरानुरूप्येणार्थिकाक्षरावच्छेदान्मा-प्रमा-प्रतिमात्मकमेदत्रयभिचः समर्थनीयः । तत्र च वाचिकंाक्षरसंख्यासानां लक्षणत्वम्, आर्थिकाक्षरसंख्यानानां च लक्ष्यत्वं सर्वत्र समु ज्ञेयम् । एतेन सर्व एवात्रत्यप्रश्रप्रन्थोक्ता वैदिकनिदर्शनास्थानाश्छन्दोव्यवहारा व्या ख्याताः । विषुवाहोरात्रवृत्तस्य बृहतीच्छन्दस्त्वम्, ततो दक्षिणतः क्रमेण हसितानां त्रयाणामहोरात्रवृत्तानामनुष्टुबुष्णिग्गायत्रीत्वम्, विबुवादुत्तरतथ क्रमेण दीर्षणां त्रया णामहोरात्रवृत्तानां पङ्कित्रिष्टुब्जगतीत्वंच पूर्वोक्तप्रकारेणैवाभिप्रेत्य सप्तानामेषां छन्द संज्ञानां सूर्याश्चत्वमाख्यायते । ‘प्रजापतेरक्ष्यश्चयत् । तदश्वोऽभवत्’ इति श्रुत्या सूर्य रथसमाविष्टानां चक्रस्थानां तेषामहोरात्रवृत्तानामेव सूर्याश्धत्वात् । तदेतत्सर्वं वेदसमी क्षायां विस्तरतः समाख्याय स्पष्टीकृतमितेि ततोऽवलोक्यम् ॥ इह तु मा-प्रमा-प्रति मात्मकभेदत्रयभिन्नः प्राणावच्छेदोऽवच्छिन्नप्राणोऽपि वा छन्द इलेयतत् तावत् सर्वच्छ न्दोरहस्यं सिद्धान्ततो व्याख्यातमिति दिक् । नन्वेवमप्येतदपर्याप्त छन्दोलक्षणमाख्यायते ‘वासो अझे विश्वरूपं संव्ययख विभावसो ॥’ इति छन्दांसि वा अमेर्वािसः । छन्दांस्येषवस्ते । छन्दोभिरेवैनं परिददाति' । इति मैत्रायणीयश्रुतावझ्याच्छादनत्वेनाभिप्रेतस्यार्थस्य, (१) छन्दांसि वै संवेश उपवेश इति तैत्तिरीयश्रुतौ संप्राप्यावस्थानस्य, तत्रैवासनस्य चार्थस्य, (२) शिल्पानि शंसन्ति देवशिल्पानि । एतेषां वै शिल्पानामनुकृतीह शिल्पमधिगम्यते । हस्ती कंसो वासो हिरण्यमश्वतरी रथः शिल्पम् । यदेव शिल्पानी' ३, आत्मसंस्कृतिर्वाव शिल्पानि—छन्दोमयं वा । एतैर्यजमान आत्मानं संस्कुरुते ॥’ इयैतरेयश्रुतौ शिल्प भूतस्यार्थस्य च (३) मानाद्यवच्छेदविलक्षणस्यापि छन्दस्त्वेन प्रतिज्ञानात् । इति चेत् । अत्रोच्यते—दैवतकाण्डे निरुक्त भगवता यास्केनं भयिसाहचर्यनिर्वचनावसरे–‘यञ्च किंचेिद्दार्टिविषयिकं तदमेः कर्म' इलेयवं प्रतिजानानेन दार्टिविषयिकाणां स्थानावरोधः कानां सर्वेषामेवार्थानाममिप्रधानत्वप्रतिबोधनात् तत्खरूपावच्छेदकानां दिग्देशकालसं ख्यानानामेवानात्मधर्माणां छन्दस्त्वेनाभिप्रेतानामाच्छादकत्साधने मैत्रायणीयश्रुतेस्ता