पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/१६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२ काव्यमाला चतुःशतमुत्कृतिः । ४ । १ ननुरधिकं शतं चतुःशतम् । मध्यमपदलोपी समासः । अथ वा चत्वारि च शतं च तुःशतम् । द्वन्द्वसमासः । कर्मधारयस्तु नेष्यते । तत्र चतुःशतानीति प्राप्तोति । यत्र तु:शतमक्षराणां संख्या भवति, तत् ‘उँत्कृतिः’ नाम छन्दः । यथा गस्य हविष आत्र्तामद्य (१) मध्यतो मेद् उतं (२) पुरा द्वेषोब्भ्यः (३) पग पौरुषेय्या गुभो (४) घस्तं नूनं (५) घासे अंज्राणां यवसप्रथमाना१ (६) क्षराणाशु शतरुद्रियाणाम् (७) अन्निष्वात्तानां पीवोपवसनानां (८) पार्श्वत (९) शितामतः उत्सादतः (१०) अङ्गदङ्गादवत्तानां (११) करत एवाश्विनां (१२) जुषेत' हुविः (१३)' (यजुर्वेदे-अ० २१ मं० ४३) चतुरश्चतुरस्त्यजेदुत्कृते ॥ ४ ॥ २ ॥ चतुःशताक्षराच्छन्दसः क्रमेण चतुरश्चतुरः संख्याविशेषांस्त्यजेत् । एतदुक्तं भवति उत्कृतेरारभ्य चतुर्भिश्चतुर्भिरक्षरैन्यूनानि छन्दांस्यन्यानि स्थापयेतू, अष्टा-वत्वारिंशदक्षरं यावत् ॥ तान्यभिसंव्याप्रेभ्यः कृतिः । ४ । ३ ।। न्युत्कृतेरनन्तराणि छन्दांसि अभि-सं-वि-आङ्-प्र इत्येतेभ्यः पराणि ‘कृति'संज्ञानि भवन्तेि । तत्र शताक्षरं छन्दः 'अभिकृतिः' । यथा देवो अमिः स्विष्टकृत् (१) (२) । होताराविन्द्रमश्विनां (३) । वाचा वाच५ सरस्वतीम् (४) । अभि५ सोमं५ स्विष्टकृत् (५) । स्पिष्ट इन्द्रं पुत्रामा (६) । सविता वरुणो भिषक् (७) । इष्टो देवो वनस्पतिः (८) । स्विष्टा देवा आज्यपाः (४) । इष्टो अग्रिन्निना (१०) । होता होत्रे स्विष्टकृत् (११) । यशो न दर्धदिन्द्रियम् (१२) । ऊर्जमर्पचितिं स्वधाम् (१३) ॥’ (तैत्तिरीयब्राह्मणे अ० २ प्र० ६ अ० १४ मं० ११) षण्णवल्यक्षरं संकृतिः । यथा देवो अभिः स्विष्टकृत् (१) । सुद्रविणा मन्द्रः कविः (२) । सत्यर्मन्मा यजी होता (३) । होतुहॉतुरायंजी यान् (४) । अझे यान् देवानयाद (५) । या५ अपि प्रे (६) । येते होत्रे अर्मत्सत (७) । ता५ संसनुषी५ होत्रां देवंगमां (८) । दिवि उत्कृत्यादिकृतिपर्यन्तानामुदाहरणानि श्रीमता हलायुधेन न दर्शितानि, अतस्तानि नुक्रमभाध्योपलब्धानि, अन्यत्र सुप्रसिद्धानि च सर्वोपकृतये धृतिमध्येऽस्माभिर्नि वेशतानि । २. ‘कृतिः प्रकृतिराकृतिः । विकृतिः सङ्कतिचैव तथातिकृतिरुत्कृति पु० पू० ५७॥१३)