पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/१२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग्रहणम् । भ्रादयः परे यस्मात्स भ्रादिपर ततश्चायं सूत्रार्थः-व्यञ्जनसंयोगात्पूर्वस्य हखस्यानुखारविसर्जनीयजिह्वामूलीयोपधमा नीयेभ्यश्च पूर्वस्य गुरुसंज्ञातिदिश्यते हे । १ । १२ ।। इत्यनुवर्तते । हे इति द्विमात्रोपलक्षणार्थम् । ततश्चायं सूत्रार्थः-द्विमात्रिकस्य दीर्घस्य ‘ग’ इति संज्ञा क्रियते ॥ स इति गकारस्य परामर्शः । स गकारो द्विमात्राः-गणनायां द्वौ लकारौ कृत्वा ग्लॉ ॥ १ ॥ १४ ॥ अधिकारोऽयमाशास्रपरिसमाप्तः । यत्र विशेषान्तरं न श्रूयते तत्र ‘ग्लौ' इत्युपति ष्टते, ‘गायत्र्या वसवः’ (पि० सू० ३॥३) इत्येवमादिवत् । सुतेनेह व्यवहारो नास्ति अष्टौ वसव इति । १ । १५ ।। अत्र शात्रे वसव इत्युच्यमानेऽष्टसंख्योपलक्षिता गुरुलघुखरूपा वर्णा गृह्यन्ते किप्रसिद्धयुपलक्षणार्थमिदं सूत्रम् । तेन चैतुर्णा समुद्राः, पञ्चानामिन्द्रियाणि, इत्येवः दयः संज्ञाविशेषा लौकिकेभ्यः प्रत्येतव्याः । इतिकारोऽध्यायसमाप्तिसूचक इह घ्यादीनामुपादानप्रयोजनं वण्यैते—अध्ययनाद्धीर्भवति । यस्य धीस्तस्य श्री बुद्धिपूर्वकत्वाद्विभूतेः । यस्य श्रीस्तस्य स्त्री, अ वरा सा इत्य नेन सर्वेषां स्त्रीसाधनोपायानां बुद्धेरुपायस्य माहात्म्यं दर्शयति । तथा चोक्तम्-‘अर्धा सर्वाङ्गीणपरिशिमबुधाः कर्म कुर्वते ।’ तत्राह शिष्य का गुहा' ? गुहाशब्दः स्थानवाचक का गुहा यत्रासौ तिष्ठति? । उपाध्यायो बूते वसुधा’ । पृथिव्यां लभ्यते धीनत्र विषादः कर्तव्यः । पुनरप्याह शिष्य सा धीस्त्वयोपदिष्टा पृथिव्यां काश्रयस्थितेन लभ्यते? तत्र पुनराचार्य आह–‘गृहे पुनरप्याह शिष्यः-कदा सः’ स गृहस्थः पुरुषः कदा कस्मिन्काले तां धियं प्राप्रेोति ? । १. ‘ए ओ कंचित्प्राकृतके लधूस्त' (१॥६) इति वार्णीभूषणे ॥ २. सङ्खये यपरैः पदैलॉकव्यवहारात्सङ्का लक्ष्यते । ‘वसवोऽष्टौ च चत्वारो वेदा इत्यादि लोकतः ।’ (३२८॥३) इत्यग्पुिराणे । तथा च-समुद्र (६।१९ इत्यादौ) पदेन ‘वेद’ ( ८॥१० ) पदेन चात्र चतुःसङ्कयोपलक्ष्यते ? एवं ‘इन्द्रियाणि (६४१ इ०) ‘भूतानि’ (७॥३० इ०) ‘कामशराः’ (६॥४२) इत्येतैः पञ्च (३॥८॥३०) ‘रसाः’ (६॥३३ इ०) इति षट् । ‘ऋषयः’ (३॥९ इ०) ‘खराः’ (७॥६ इ०) इति सप्त । ‘वसवः’(३॥३ इ०) इत्यष्टौ । ‘दिशः'(३॥५इ०) इति दश।'रुद्राः’(३६इ०) त्यकादश । ‘आदित्याः’ (३४ इ०) ‘मासाः’ (७:२९) इति द्वादशेति ज्ञेयम्