एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६४
चारुदत्ते
नायकः - किं भवानिदानी मां बाधते।
भवांस्तावदविश्वासी शीलज्ञो मम नित्यशः ।
किं पुनः स कलाजीवी वञ्चनापण्डितो जनः ॥ १६ ॥
विदूषकः- (क) मण्णे मए मन्दभग्गेण कुम्भीळस्स हत्थे दिण्णं । (विषण्णस्तिष्ठति ।)
(प्रविश्य)
ब्राह्मणी- (ख) रदणिए! अय्यमेत्तेअं सदावेहि ।
चेटी- (ग) अय्यमेत्तेअ! भट्टिदारिआ तुम सदावेदि।
विदूषकः -- (घ) भोदि! किं मं ।
चेटी- (ङ) आम।
विदूषकः -- (च) एस आअच्छामि । (उपसर्पति ।)
ब्राह्मणी - (छ) अय्यमेत्तेअ ! इमं पडिग्गहं पडिगह्न ।
(क) मन्ये मया मन्दभाग्येन कुम्भीलम्य हस्ते दत्तम् ।
(ख) रदनिके! आर्यमैत्रेयं शब्दापय ।
(ग) आर्यमैत्रेय! भर्तृदारिका त्वां शब्दापयति ।
(घ) भवति! किं माम् ।
(ङ) आम ।
(च) एप आगच्छामि ।
(छ) आयमैत्रेय! इमं प्रतिग्रहं प्रतिगृहाण ।
१. 'व' ख, पाठः.