संवाहकः - (क) अणुग्गहिदो मि।
गणिका - (ख) गच्छदु अय्यो सुहिज्जणदंसणेण पीदि णिव्वत्तेढुं।
संवाहकः- (ग) अज्ज एव कदाई णिव्वेदेण पव्वजेअं । जइ इअं परिअणे सङ्कन्ता कळा भवे, तदो अय्याए अणुग्गहिदो भवेअं।
गणिका-(घ) जस्स किदे इअं कळा सिक्खिदा, सो एव्व अय्येण उवचिट्ठिदव्यो भविस्सदि ।
संवाहकः- (स्वगतम् ) (ङ) णिउणं खु पच्चाचक्खिदो मि। को हि णाम अप्पणा किदं पञ्चुअआरेण विणासेदि । (प्रकाश) अय्ये! गच्छामि दाव अहं।
गणिका--(च) गच्छदु अय्यो पुणो दंसणाअ ।
संवाहकः- (छ) अय्ये ! तह । (निष्क्रान्तः । )
(क) अनुगृहीतोऽस्मि ।
(ख) गच्छत्वार्यः सुहृज्जनदर्शनेन प्रीतिं निर्वर्तयितुम् ।
(ग) अद्यैव कदाचिन्निदेन प्रबजेयम् । यदीयं परिजने सक्रान्ता कला भवेत् , तत आयेयानुगृहीतो भवेयम् ।
(घ) यस्य कृते इयं कला शिक्षिता, स एवार्येणोपस्थातव्यो भविष्यति ।
(ङ) निपुणं खलु प्रत्याख्यातोऽस्मि । को हि नामात्मना कृतं प्रत्युपकारेण विनाशयति । आर्ये! गच्छामि तावदहम् ।
(च) गच्छत्वार्यः पुनदर्शनाय ।
(छ) आर्ये! तथा ।
१. 'इ अण्णं पि णि' क. पाठः. २. 'दो अणु', ३. 'त' ख. पाठः. ४. 'म् । ग'