माघ्रा त[१]यानुमृतया महितस्य राज्ञो |
तदनु नव्यवैधव्यब[२]हुव्यथाया पृथाया पुरतो निर्मर्यादपितृशोकवि[३]दार्यमाणधैर्य[४]सोदर्यजनपरिवार्यमाणाय हृदि विदितनिखिलधर्मजाताय ध[५]र्मजाताय महत्यामपि विपत्तया वै[६]यात्येन भवितव्यमिति राजन[७]यनिगमाङ्कुर प्रकाश्य् काश्यपादयो दयोपेता शतस्ड्मुशृङ्गनिपुगास्तुड्गमणिसौध[८]शृङ्ग कुलक्रमागत कुरुनगरमेतानवतारयामासु।
तप्ताया भुवी वर्षे घूमाकृतिरुष्मा भवतीति तत्त्वम् । मुचे कर्तरि लिट् । 'बाष्पनैत्रजमलोष्म्णो'इत्यमर । क्ष्लेषमूलातिशयोक्ति ॥ ७८ ॥
माघ्रति । तया स्वसगमेन मृत्युदायिन्या अनुमृतया । अग्निं प्रविष्टये त्यर्थ । माद्र्घा महितस्य सतुष्टस्य राज्ञ निखिलासु सकलासु क्त्रियासु और्घ्वदे हिकेषु तनयैर्युधिष्टिरादिभिर्निर्वर्तितास्वनुष्टितासु सतीषु । तौ जायापती माद्री पाण्डू प्रकाशमुज्ज्वलम् । मरणभीत्यभावादिति भाव । सुरतोत्सव सभोग देवत्वप्राप्तिरुपमुत्सव च भूय पुनरपि सुमनसा देवाना पुरतस्त्वग्र एवेत्यर्थ । अन्वभूतामनुभूतवन्तौ । 'सुरत मैथुनेऽपि स्याद्देवत्वे सुरता स्त्रियाम्' इति विश्व ॥ ७९ ॥
तदन्विति । तदनु पाण्डुसस्कारानन्तर नव्येन नूतनेन वैधव्येन भर्तृरा हित्येन बह्वयो व्यथा दु खानि यस्यास्तस्या पृथाया कुन्त्या पुरतोऽग्रे निर्मर्योदेनापारेण पितृशोकेन विदार्यमाण मिद्यमान धैर्य यस्य तेन सोदर्यजनेन भ्रातृलोकेन परिवार्यमाणाय । हृदि मनसि विदित ज्ञात निखिलाना धर्माणामा पत्कालिकाना जात समूहो यस्य तस्मै । वर्माघमाज्जाताय धर्मजाताया युधिष्टिराय महत्या दुष्पारायामापि विपत्यामापदि वैयात्येन धैर्येण भवितव्यमू । धीरो भवेदित्यर्थ । 'धृष्टे धृष्णुर्वियातक्ष्च' इत्यमर । इत्युक्त्तप्रकार राज्ञा नयनिगमस्य नीतिशास्त्रस्याड्कुरमर्थबोध प्रकाश्योपदिश्य काश्यप आदिर्येषा तथोक्ता शतशृङ्गनामपर्वते ये मुख्या मुनिपुगवा ॠषिक्ष्रेष्टास्ते दययोपेता सन्त तुङ्गानि मणिमयसौधाना शृङ्गणि शिखराणि यस्मिस्तथोक्त कुलऋमेण वशानुपूर्व्या आगत प्राप्त करुनगर हस्तिनपुरमेतान्युधिष्टिरादीनवतारयामासु प्रापयामासु । तरतेर्ण्यन्तस्य 'गतिबुद्धि-'इत्यादिना द्विकर्मकत्वम् ॥