क्षौम बिमेद स्मर[१] राजघानीक्षौम कराम्मोजदलेन तस्या ॥ ७३ ॥
तत्र तौ राजदम्पती मुनिशापबल[२]परिचिचिक्षयेव मुहु[३] रभङ्गुलिङ्गनमङ्गलतरङ्गितकुचकुम्भसभृतघर्मजलनिर्मितमदनयौवराज्यामिषेकम घरितंधुरसमधुरिमाघरबि[४]म्बर्म्विडम्बिताम्बरचरकुटुम्बिजीवनमतिजवपम्फुल्यमानघम्मिल्लविगलदविरलबकुलमुकुलपुनरूक्तपुष्पतल्पमविगणितवीणागुणकणित[५]मणितमसृणितमतिचिरप्रमु[६] षितमसमशारसमरमुन्मी[७]लयामासतु ।
आयुष सतति दीर्घामावह्न्नपि पौरव । |
माघ्रा सबन्धिन स्मरराजघान्या मन्मथमहानगरस्य क्षौम प्राकारं क्षौम दुकूलम्।'क्षौम दुकूले प्राकारे'इति विश्व। करमम्भोजमिव तस्य दलेनाग्रेण बिमेद शिथिलयामास ॥ ७३ ॥
तत्रेति। तत्र प्रसूनतल्पे तौ राज्ञी च राजा च राजानौ तौ दम्पति माद्री पाण्डू भुने किदमस्य सबन्धिन शापवलस्य परीक्षितुमिच्छा परिक्षितुमिक्छा तथेवे त्युत्प्रेक्षा । परिपूर्वादीक्षते सन्नन्तादप्रत्यय । अभङ्गुरेणातिद्दढेनालिङ्गनमङ्गलेन परिरम्भसुखेन तरङ्गितयो प्रवुद्ध्यो कुचकुम्भयो सभृतेन पूर्णेन घर्मजलेन निर्मितो मदनयौवराज्याभिषेको यास्मिस्थयोत्कम्। अधरितस्तुच्छिकृतो मधुरसस्य मधुरिमा माधुर्य येन तेनाघरेण बिम्बेनेव विडम्बितमनुकृतमम्बरचरकुटुम्बिना देवाना जीवनमसूत यस्मिस्तथोत्कम्। अतिजवेनातिवेगेन पम्फुल्यमानाच्छि थिलायमानाध्दम्मिल्लात्सयतकचभाराद्विगलविरलैर्बकुलमुकुलैरशोकपुष्पे पुन रुक्त द्विगुणीकृत पुष्पतल्प यस्मिस्थथोक्त्तम्। अविगणित तुच्छित वीणाया गुणकणित तन्त्रीनादो यैस्तैर्मणितैर्मसृणित निबिडितम्। अतिचिरं भुनिशापप्रमृत्येतत्क्षणपर्यन्त प्रमुषित तस्करितमसमशरस्य पञ्चबाणस्व समरं युद्धम्। सुरतमिति यावत्। उन्मीलयामासतु।अनुबभूवतुरित्यर्थ॥
आयुष इति। पौरव पाण्डुरायुष आयुर्नामराज्ञो जीवितकालस्य च सलर्ति वशसमूह च दीर्घा पुत्रसपत्तया विस्तृतामावहन्। बिभ्रन्नपि सन्नित्यर्थ। आयुषो जीवितकालस्य सतते समूहस्य रतेरिवान्त समाप्तिमाजगाम प्राप्तवान्। रत्यन्तसमकालस्तस्य जीवितान्तोऽभूदित्यर्थ।क्ष्लेषानुप्राणितो विरोधाभासालकार॥७४॥