पृष्ठम्:चम्पूभारतम्.pdf/३१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३१४
चम्पूभारते


तत्राचनीन्द्र प्रणत कुमारमस्त्रैर्दूयैरा[१]र्द्रतनुत्रमाजौ ।
दोर्भ्या द्विषद्वन्धनखेदभाग्भ्यामपि प्रमोदाडृढमालिलिङ्ग ॥ ६१ ॥

पार्थोऽप्युपानीय रथस्य गर्भात्पार्श्वस्थितायै पितुरुत्तरायै ।
प्रा[२]दत्त पट्टाशुकमात्मसूनो पाणिग्रहार्थ किल मन्त्रवास ॥ ६२ ॥

 आचेटमन्यमखिल पटमासुदेष्ण-
  भन्त पुराय स विभज्य ददौ कुमार ।
 सैरन्ध्रये न तु मलीमसवाससेऽपि
  सचिन्त्य ता बहुपटप्रभवावलग्नाम् ॥ ६३ ॥


पूर्वाह्न इति यावत् । यानि पुष्पाणि, ये खूपा , ये केतव ध्वजा , ये मणिमयास्तो रणाङ्काश्च पुरे प्पचारा बभूवु । जयिन उत्तरगोग्रहशालिन पुत्रस्य तस्योत्तरस्य । पश्चदिति शेष । अपराह्न इत्यर्थ । तानि पुष्पाण्येव, ते घूपा एव, ते केतव एव, ते मणितोरणाङ्का एव, पुरोपचारा वभूवु जयद्वयस्यैकाह्वपि विलम्पाभावादिति भाव ॥ ६० ॥

 तत्रेति । तत्र आस्थानमण्डप अवनीन्द्र विराट प्रणत नम्र द्वयै द्विविधै अस्त्रे प्रथम रोदनजन्यै बाष्पै पश्चात् शत्रुशरक्षतिजन्यै शोणितैश्व आर्द्र सिक्त तनुत्र कवच यम्य तयोक्तम् । ‘अस्रमश्रुणि शोणिते’ इति विश्व । कुमार उत्तर आजौ युद्धे द्विषता सुशर्मणा बन्धनेन य खेद श्रम त भजत इति भाग्भ्यामपि दोर्भ्या बाहुन्या प्रमोदाद्धेतो दृढ यथा तथा आलिलिङ्ग आलिबि तवान् । प्रेमपरवशा न गणयन्ति निज श्रममिति भाव ॥ ६१ ॥

 पार्थ इति । पार्थ अर्जुनोऽपि रथस्य गर्भात् मध्यात् पट्टाशुक शात्रव उपानीय आदाय आत्मसूनो अभिमन्यो पाणिग्रहार्थ मन्त्रवास क्लेिति सभावनाथाम् कन्यानिश्चयकालिकवस्त्रमिवेत्युत्प्रेक्षा पितु पार्श्चे स्थितायै उत्तरायै ददौ ॥ ६२ ॥

 जाचेटमिति । स कुमार उत्तर अन्य उत्तरायै अर्जुनदत्तादितर अखिल पटं वस्त्राणीति जात्येकवचनम् । आसुदेष्ण सुदेष्णामारभ्य आचेट दासीजन पर्यन्त अन्त पुराय । अन्त पुरजनायेत्यथ । ददौ । मलीमस मलिन वास वस्त्र यस्यास्तथोक्ताया अपि सैरन्ध्रये द्रौपधै तु ता द्रौपदी बहूना पटना प्रभव उत्पत्तिस्थान अवलग्न मध्यदेश यस्यास्तथोक्ता सचिन्त्य स्मृत्वा न ददौ । पट कचिदिति शेष । अनुचितत्वादिति भाव । अत्र बहुपटोत्पादकत्वेन द्रौपदी भव्यचिन्तनस्य विशेषणगत्या तस्ये वस्रदानप्रतिषेधहेतुत्वात्पदाथहेतुक काव्यलिङ्गम् ॥ ६३ ॥


  1. ‘तदा’ इति पाठ
  2. ‘दिदेश', '"यादत्त’ इति च पाठ