त्वया पुनश्च स्मितपूर्ववाचा प्रत्युत्पतन्येव कटा[१] क्षखेलै । |
इत्याश्वासितबत पत्युरनुमत्या पुनरा[२]गत्य नैपथ्यभवनमधिशयालोस्त[३]स्याश्चेतस पलायमानस्य भयभरस्य सापि विभावरीसहचरी बभूव ॥
अन्येद्युरेत्य चपल पुन[४]रब्रवीत्ता |
क्ष्म्या सबन्धि शिल्प अलकार यथार्थभावात् सत्य यथा तथा अनुभूय सम्यकू ह्ष्टवा त्व सद्य तत्क्षण सैरन्ध्रिकाया शिल्पकरिकाया सबन्धिना आचारेण अङ्गनालकरणरूपेण विनोदने क्रीडायामपि मा तव अनुसारेच्छु अनुसरणकामम् । ‘विंदुरिच्छु’ इति साधु । अवेहि जानीहि । स्वानुरूपचेष्टाया प्रेनौत्कव्यादिति भाव ॥ ५६ ॥
त्वयेति । किंचेति वार्थे । त्वया पुनस्त्वथ । प्रत्युत्पतन्त्या स्वयमेवानुरा गेणागच्छन्त्येव क्टाक्षाणा खेलै प्रसारै सह स्भित पूर्व यस्यास्तया वाचा वाक्येन क्रीडा सभोग वध च विधातु कर्तृ अय ताण्डवमण्डप नर्तनशाला अमुष्य कीचकस्य सकेतभू क्रियताम् । अमुष्य क्रीडामिति वा योजना । तत्रागत हनिष्यामीति भाव ॥ ५७ ॥
इतीति । इत्युक्तप्रकारेण आश्वसितवत दु खापनोदन कृतवत पत्यु भीमस्य अनुमया निदेशेन पुन आगत्य नैपध्यभवन अलकारशाला अधिशयालो तत्र निद्रायमाणाया तस्या द्रौपद्या चेतस चित्तात् पलायमानस्य भयभरस्य सा विभावरी रात्रिरपि सहचरी अनुयात्री बभूव । द्वयमप्यगच्छदित्यर्थ । अत एव तुल्ययोगिताभेद ॥
अन्येद्युरिति । अन्येधु परस्मिन् दिने चपल कामाकुलचित्त स कीचक पुन एत्य द्रौपदीसमीपमागत्य ता द्रौपदी प्रति अब्रवीत् वक्ष्यमाणप्रकारेण उवाच । हे सुभ्रु हे सुन्दरभ्रूलते, तुल्यस्य निकारस्य अवमानस्य पात्रे मयि विषये प्रसीद। तुल्य निकार कथयति-केलीष्विति । केलीषु सुरतबन्धविशेषेषु हार्देन प्रेम्णा कलहेषु च क्रमेण केशाना कृष्टि आकर्षण पादभ्या आहति ताडन च दधती कुर्वती सती वैरस्य पूर्वस्मिन् दिने केशग्रहादिजन्यस्य शुद्धिं निर्यातन कुरु ॥ ५८ ॥