वंशयोर्वाचकम्, इतजन्तार्थितपदेन सृष्टयादिप्रयोजनवत्त्वं सूचितम् ॥ २२॥ यतो भवान् सात्वताम्भक्तानां सखा अतो भक्त-
प्रार्थितन्देहीति चतुर्भिराहुः।
विरचिताभयं वृष्णिधूर्यते।
चरणमीयुषां संसृतेर्भयात् ॥
करसरोरुहं कान्तकामदं।
शिरसि धेहि नः श्रीकरग्रहम् ।।५।।
विरचितेत। यद्वा विशेषेण रचिता सम्पादिता अभय- मुद्रा यस्मिंस्तत्॥१॥यद्वा विर्गरुडो रोऽग्निः, स च सुदर्शनात्म- कस्ताभ्यां चितम्। चिञ्चयनेक्तान्तः,सम्पादितमभयं यस्मिंस्तव हस्ते गरुडसुदर्शने लाञ्छने स्तस्ताभ्यामभयं सम्पादितम्भवति। अतएव भयात् भयमत्तीतिभयात् 'अदोऽनन्ने ' इति विट्। एतत्सम्बोधनमस्तु। करसरोरुहविशेषणमस्तु वा ॥ २ ॥ यद्वा संसृतेर्भयाद्हेतोस्ते त्वया साकं रणमीयुषां हिरण्याक्षादीनाम् । तृतीयैकवचनान्तेऽपि बहुशस्ते आदेशो दृश्यते। ते तवेतिसम्ब- न्धसामान्ये षष्ठी वास्तु। रणं कुर्वतामपि विरचिताभयं मोक्ष- दमित्यर्थः। एतेन परमदयालुत्वं सूचितम् ॥३॥ यद्वा कान्त- कामदमित्यत्र केति पृथक् अन्तकेति पृथक् अ इति पृथक् मदमिति पृथक् एवंच यदि अन धेहि तर्हि हेक! हेधातः!
*छ चोऽप्यर्थः।