पृष्ठम्:गायत्रीमन्त्रार्थविवृतिः.djvu/८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गायत्रीमन्त्रार्थविवृतिः । ६ प्रयम् । पादत्रयं च सावित्र्या स्त्रयो वेदा अदुहन् । एतदक्षरमेतां च जपन् व्याहृतिपूर्विकाम् सन्ध्ययोर्वेदविद्विप्रो वेदपुण्येन युज्यत इति मनुवाक्यमवगन्तव्यम् । मनाति सागरोमृतमिति वत् सौकर्यातिशय- द्योतनफलको दुहधातोः कर्मकर्तृप्रयोगः आर्षस्तु परस्मैपदपाठः ॥ वेदास्तु प्रकृतविषये दोहकर्तारः स्वयमेव बभूवुः येन चान्तरनवशे- षितसर्वसारांशदोहनं बभूव न तु लौकिकगोपालकतकदोहवत्सर्वसारां- शदोहो न संबभूवेत्येषोऽर्थः स्फुटमेवात्र वेदशब्दस्य कर्तृतयावगम्यत इति ॥ विष्णुस्मृतावपि पञ्चपञ्चाशत्तमेध्याये लिखिता अकारंचाप्यु- कारं च मकारं च प्रजापतिः । वेदत्रयान्निरदुहद्भूर्भुवःस्वरितीति च । त्रिभ्य एव च वेदेभ्यः पादं पादमदुदुहत् तदित्यूचोस्याः सावित्र्याः परमीष्टी प्रजापतिः । एतदक्षरमेतां च जपन्व्याहृतिपूर्विकाम् । सन्ध्ययोर्वेदवि- द्विषो वेदपुण्येन युज्यते । उौंकारपूर्विकास्तिस्रो महान्याहृतयोऽव्ययाः