पृष्ठम्:गायत्रीमन्त्रार्थविवृतिः.djvu/३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गायत्रीमन्त्रार्थविवृतिः । ३० अन्तः किं रूपो बहिश्च किं रूपो वर्तते कथं च तव्यावर्तनमि- त्येतद्विशदयति ॥ असावादित्यो बहिरात्माऽन्तरात्मा प्राणोऽतो बहि- रात्मिक्या गत्यान्तरात्मनोऽनुमीयते गतिरित्येवं ह्याह ॥ असौ प्रसि- द्धो वै आदित्यः मूर्यो बहिरात्मा यत एवमतोबहिरात्मन इयं बहि- रात्मिकी तत्प्रयुक्तेति यावत् तया बहिरात्मिक्या गत्या परिवर्तनेना- न्तरात्मनः प्राणस्य गतिरनुमीयते इत्येवं प्रकारं हि यत अहागमज्ञः अतस्तयोन वास्तवो भेद इति शेषः अयमाशयः सूर्यो हि मेरुं प्रदक्षिणीकुर्वन्नहोरात्राभ्यां ब्रह्माण्डं परिवर्तते प्राणोपि श्वासोच्छ्वासा- भ्यां देहान्तः परिभ्रमति तत्रैकाहोरात्रसूर्यगत्या प्राणस्यैकविंशतिसह- ससंख्याः श्वासा भवन्तीत्यागमशास्त्रप्रसिद्धम् ।। इदानीमन्तरात्मगत्या बहिरात्मनो गत्यनुमानप्रकारमाह । अथ य इति । अथ यः कश्चिद्विद्वानपहतपाप्माक्षाध्यक्षोऽवदातमनास्तनिष्ठ आवृ-