पृष्ठम्:गायत्रीमन्त्रार्थविवृतिः.djvu/२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गायत्रीमन्त्रार्थविवृतिः । १८ विशेषेण स्वहृदयगोचरं करोमि । तृतीयपादेन सूर्यस्य तद्गतपुरुषस्य च प्रसिद्धा स्वाभाविकी क्रियां प्रदर्शयति श्रुतिः । यत्तदोनित्यसंब- न्धइतिनीत्यातच्छन्दनिर्दिष्टसवितृतजो यच्छब्देनानूद्यते योदिवाकरोनःस- र्वजनप्रत्यक्षमुदयमानः धियः किरणान्दशसु दिक्षु प्रचोदयात्प्रेरयतीति लडथैलिङ् प्रयोगः छान्दसः । यद्वा भास्करो नोस्माकं धियोन्तःकर- णवृत्तीः स्वापमपहाय व्यवहृत्युन्मुखीभवनाय प्रेरयति । अनेन बुधादि सर्व जडं करणवर्ग शरीरं च चेतयत्यसाविति ज्ञापितं भवति ।। अथवा मत्रोपासकस्य फलमाविष्करोति तृतीयपादेन श्रुतिः । यो मन्त्रपादद्वय- निर्णीतोध्येयस्वरूपावस्थित अदित्यमण्डलान्तर्गतः पुरुषाकारस्तेजोरा- शिर्बुधाधिदेवोनोऽस्माकं धियः धीवृतीर्मोक्षफलकस्वस्वरूपप्रत्यक्षीकरणाय दुरवगाहशास्त्राम्भोधिपारगमनायायुर्वृद्धये लोकत्रयसाम्राज्यफलकनीति- मार्गप्रवृत्तये च प्रचोदयात्प्रेरयेदिति प्रार्थनायां लिङ् ॥ प्रकृतार्थवि-