पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/१३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

102 गणितसारसङ्ग्रहः

विपरीतकरणानयनसूत्रम--

प्रत्युत्पन्न भागो भागे गुणितोंऽधिके पुनश्शोध्यः ।
वगै मूलं मूले वर्गे विपरीतकरणामिदम् ॥ २८६ ॥

अत्रोद्देशकः ।

सप्तदंते को राशित्रिगुणो वर्गीकृतः शरैर्युक्तः ।
त्रिगुणितपधांशहूतवर्धितमूलं च पञ्चरूपाणि ॥ २८७ ॥

साधारणशरपरिध्यानयनसूत्रम् -

शरपरिधित्रिकामिलनं वर्गितमेतत्पुनस्त्रिभिस्सहितम् ।
द्वादशहृतेऽपि लब्धं शरसह्या स्यात्कलापकाविष्टा ॥२८८॥

अत्रोद्देशकः ।

परिधिशरा अष्टादश तूणीरस्थाः शराः के स्युः ।
गणितज्ञ यदि विचित्रे कुटीकारे श्रमोऽस्ति ते कथय ।। २८९। ।

इति मिश्रकव्यवहारे विचित्रकुट्टीकारः समाप्तः ।



श्रेढीबद्धसङ्कलितम् ।

इतःपरं मिश्रकगणिते श्रेढीबद्धसङ्कलितं व्याख्यास्यामः ।

हीनाधिकचयसङ्कलितधनानयनसूत्रम् -

व्येकार्थपदोनाधिकचयघानान्चितः पुनः प्रभवः ।
गच्छाभ्यसो हीनाधिकचयसमुदायसङ्कलितम् ॥ २९० ॥

अत्रोद्देशकः ।

चतुरुत्तरदश चादिर्हनचयस्त्रीणि पञ्च गच्छः किम् ।
द्वावादिर्थंडिचयः षट् पदमष्टं धनं भवेदत्र ॥ २९१ ॥