पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/११४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

82 गणितसारसङ्ग्रहः

वनान्तरे दाडिमराशयस्ते पान्यैस्त्रयस्सप्तभिरेकशेषाः ।
सप्त त्रिशेषा नवभिर्विभक्ताः पञ्चाष्टभिः के गुणक द्विरग्राः ॥१२८(१/२)॥

भक्ता द्वियुक्ता नवभिस्तु पथ
युक्ताश्चतुर्भिश्च षडष्टभिस्तैः ।
पान्थैर्जनैस्सप्तभिरेकयुक्ता
श्रश्चत्वार एते कथय प्रमाणम् ॥१२९(१/२)॥

अग्रशेषविभागमूलानयनसूत्रम्-
शेषांशाग्रवधो युक् खानेपान्यस्तदंशकेन गुणः ।
पावन्नागास्तावाद्विच्छेदाः स्युस्तदग्रगुणाः ॥ १३०(१/२)॥

अत्रादशक ।
आनीतवत्याम्रफलानि पुंसि
प्रागेकमादाय पुनस्तदर्धम् ।
गतेऽग्रपुत्रे च तथा जघन्य
स्तत्रावशेषार्धमथो तमन्यः ॥ १३१(१/२) ॥

प्रविश्य जैनं भवनं त्रिपूरुषं
प्रागैकमभ्यच्र्य जिनस्य पादे' ।
शेषत्रिभागं प्रथमेऽनुमाने
तथा द्वितीये च तृतीयके तथा ॥ १३२(१/२) ॥

शेषत्रिभागद्वयतश्च शेष-
श्यंशद्वयं चापि ततस्त्रिभागान् ।
कृत्वा चतुर्विंशतितीर्थनाथान्
समर्चयित्वा गतवान् विशः ॥ १३३(१/२) ॥

इति मिश्रकव्यवहारे साधारणकुट्टीकारः समाप्तः ॥


Tho MBB gives पादौ, which does not ovem to booorreot hore. B reds केशान्
for पादे.