नदीशैलवनगृष्टिदरीसेतुबन्धशाल्मलीशमीक्षीरवृक्षानन्तेषु सी-
म्नां स्थापयेत् ।
513 अष्टशतग्राम्या मध्ये स्थानीयं, चतुश्शतग्राम्या द्रोणमुखं, *
द्विशतग्राम्या खार्वटिकं,२* दशग्रामीसङ्गहेण सङ्गहण स्थापयेत् ।
521 अन्तेष्वन्तपालदुर्गाणि।
जनपदद्वाराण्यन्तपालाधिष्ठितानि स्थापयेत् । तेषामन्तराणि
वागुरिकशबरपुळिन्दचण्डालारण्यचरा रक्षेयुः ।
522 ऋत्विगाचार्यपुरोहितश्रोत्रियेभ्यो ब्रह्मदेयान्यदण्डकराण्या-
भि रूपदायकानि प्रयच्छेत् ।
अध्यक्षसङ्ख्यायकादिभ्यो गोपस्थानीकानीक स्थचिकित्स-
काश्वदमकजधारिके भ्यश्च विक्रयाधानवर्जम् ।
1 वृक्षान्तरेषु सीमा.
* " नगर राजधानी, पांसुप्राकारनिबद्धखेट क्षुल्लकप्राकारवेष्टित खर्वट.
अर्धगव्यूतततीयान्तनामान्तररहित मण्टपम्
पत्तन शकटैगम्यं वाटिकैर्नौभिरेव च ।
नौभिरेव तु यद्गम्य पट्टणं तत्प्रचक्षते ।।
द्रोणमुखं जलनिर्गमप्रवेश पट्टणामित्यर्थ." इति रायपसेणीसूत्रव्याख्याने--प २०६.
“नगराणि करवर्जितानि निगमवणिजां स्थानानि । जनपदा देशा. पुरवराणि नगरे,
कदेशभूतानि द्रोणमुखानि जलस्थलपथोपेतानि खेटानि धूलीमाकारोपेतानि खर्बटानि
कुनगराणि, मण्डपानि दूरस्थलसीमान्तराणि. सदाहा. स्थापिन्य पत्तनानि जलस्थल
पथयोरन्यतरयुक्ता नि" इति प्रश्नव्याकरणसूलव्याख्याने --५ ३०६.
2 कार्वाटिक, 3 राण्यभि, 4 स्थानिनानीक, 5 जङ्गालके.