सुवर्णपुष्पीं ब्रह्माणीं ब्रह्माणं च कुशध्वजम् । 5078
सर्वाश्च देवता वन्दे वन्दे सर्वांश्च तापसान् ।।
वशं मे ब्राह्मणा यान्तु भूमिपालाश्च क्षत्रियाः ।
वशं वैश्याश्च शूद्राश्च वशतां यान्तु मे सदा ।।
स्वाहा अमिले किमिले वयुजारे प्रयोगे फके कवयुश्वे विहाले
दन्तकटके स्वाहा ।
{{gap} }सुखं स्वपन्तु शुनका ये च ग्रामे कुतूहलाः ।
श्वाविधः शल्यकं चैतन्तिश्वेतं ब्रह्मनिर्मितम् ।
प्रसुप्तास्सर्वसिद्धा हि एतत्ते स्थापनं कृतम् ।
यावद्नामस्य सीमन्त' सूर्यस्योद्गमनादिति ।।
स्वाहा।
एतस्य प्रयोग:-श्वाविधः शल्यकानि त्रिश्वेतानि सप्तरात्रो-
षितः कृष्णचतुर्दश्यां खादिराभिस्समिधाभिर्ग्निमेतेन मन्त्रेणा-
ष्टशतसंपातं कृत्वा मधुधृताभ्यां अभिजुहुयात् । तत एकमेतेन
मन्त्रेण ग्रामद्वारि गृहद्वारि वा यत्र निखन्यते, तत्सर्वं प्रस्वापयति ।
बलिं वैरोचनं वन्दे शतमायं च शम्बरम् ।।
निकुम्भं नरकं कुम्भं तन्तुकच्छं महासुरम् ॥
अर्मालवं प्रमीलं च मण्डोलूकं घटोरलम् ।।
कृष्णकंसोपचारं च पौलोमी च यशस्विनीम् ॥ 5087
अभिमन्त्रय्य गृह्णामि सिद्धार्थं शवसारिकाम् ।
1 सीमान्त, 2 रस्साभेद्धामि, 3 शारिकाम,