प्रवहण[१]निमित्तमेकोऽमात्यः सर्वानमात्यानावाहयेत् । ते नोद्वेगेन राजा तानवरुन्ध्यात् । कापटिकच्छात्रः पूर्वावरुद्धस्तेषामर्थमानावक्षिप्तमेकैकममात्यमुपजपेत्-असत्प्रवृत्तोऽयं राजा,
साध्वेनं हत्वा अन्यं प्रतिपादयिष्यामः; सर्वेषामेतद्रोचते । कथं वा तवेति । प्रत्याख्याने शुचिरिति भयोपधा ।
तत्र धर्मोपधाशुद्धान् धर्मस्थयिकण्टकशोधनेषु स्थापयेत् ।
अर्थोपधाशुद्धान् समाहर्तृसन्निधातुनिचयकर्मसु ।
कामोपधाशुद्धान् बाह्याभ्यन्तरविहाररक्षासु ।
भयोपधाशुद्धानासन्नकार्येषु राज्ञः। सर्वोपधाशुद्धान् मन्त्रिणः
कुर्यात् । सर्वत्राशुचीन् खनिद्रव्यहस्तिवनकर्मान्तेषूपयोजयेत् !
त्रिवर्गभयसंशुद्धानमात्यान्स्वेषु कर्मसु ।
अधिकुर्याद्यथाशौचमित्याचार्या व्यवस्थिताः ॥
न त्वेव कुर्यादात्मानं देवीं वा लक्ष्मीश्वरः ।
शौचहेतोरमात्यानामेतत्कौटिल्यदर्शनम् ॥
ने दूषणमदुष्टस्य विषेणेवाम्भसश्चरेत् ।
कदाचिद्धि प्रदुष्टस्य नाधिगम्येत भेषजम् ॥
कृती च कलुषा बुद्धिरुपधाभिश्चतुर्विधा ।
नागत्वाऽन्तर्निवर्तेत स्थिता सत्त्ववतां धृतौ ॥
- ↑ सामुद्रिकाः व्यापारिण महासमुद्र प्रवहणैस्तरन्ति" इति उत्तराध्ययनसूत्रटीकायाम् प. २४६.