एतत् पृष्ठम् परिष्कृतम् अस्ति
११६ प्रक]
291
मित्रसन्धिहिरण्यसान्धश्च
तुल्ये पुरुषभोगे विक्रमः क्लेशसहत्वमनुरागः सर्वबललामो वा 868 8
मित्रकुलाद्विशेषः।
तुल्ये हिरण्यभोगे पार्थितार्थता प्राभूत्यमल्पभयासता सा.
तत्याच्च विशेषः ।
तत्रेतद्भवति--
- नित्यं वश्यं लघूत्थानं पितृपितामहं महत् ।
- अद्वैध्यं चेति सम्पन्नं मित्रं पाइगुण्य[१]'मुच्यने ।।
- ऋते यदर्थं प्रणयाद्रक्ष्यते यश्च[२] रक्षति ।
- पूर्वोपचितसम्बन्धं तन्मित्रं नित्यमुच्यते ।।
- सर्वचित्रमहाभोगं त्रिविध वश्यमुच्यते ।
- एकतोभोग्युभयतः सर्वतोभोगि चापरम् ।।
- आदातृ वा दात्रपि वा जीवत्यरिषु हिंसया ।
- मित्रं नित्यमवश्यं तद्दुर्गाटव्यपसारि[३] च ।।
- अन्यतो विगृहीतं वा लघुव्यसनमेव वा।
- संधत्ते चोपकाराय तत् मित्रं वश्यमध्रुवम् ॥
- मित्रभावाद्ध्रुवं मित्रं शत्रुसाधारणाच्चलम्[६] ।
- न कस्यचिदुदासीनं द्वयोरुभयभावि तत् ॥