3283 तेषां-यस्मिन् वा गुणे स्थितः पश्येत् "इहस्थः शक्ष्यामि दुर्गसेतुकर्मवणिक्पथशून्यनिवेशखनिद्रव्यहस्तिवनकर्माण्यात्मनः प्रवर्तयितुं परस्य चैतानि कर्माण्युपहन्तुम्" इति तमातिष्ठेत् सा वृद्धिः ॥
"आशुतरा; मे वृद्धिर्भूयस्तरा वृद्धयुदयतरा वा भवि- ध्यति विपरीता परस्य" इति ज्ञात्वा परवृद्धिमुपेक्षेत ।।
तुल्यकालफलोदयायां वृद्धौ[१] सन्धिमुपेयात् ॥
यस्मिन् वा गुणे स्थितः स्वकर्मणामुपघातं पश्येन्नेतरस्य तस्मिन्न तिष्ठेत् । एष क्षयः ॥
"चिरतरेणाल्पतरं वृद्धयुदयतरं वा क्षेष्ये ; विपरीतं परः" इति ज्ञात्वा क्षयमुपेक्षेत ।।
तुल्यकालफलोदये वा क्षये सन्धिमुपेयात् ॥
यस्मिन् वा गुणे स्थितस्स्वकर्मवृद्धिं क्षय वा नाभिपश्ये- देतत् स्थानम् ॥
" हृस्वतरं वृद्धयुदयतरं वा स्थास्यामि विपरीतं परः" इति ज्ञात्वा स्थानमुपेक्षेत ॥
" तुल्यकालफलोदये वा स्थाने सन्धिमुपेयात् " इत्या- चार्याः ॥
922811 " नैतद्विभाषितम् " इति कौटि[२] ल्यः ।।