तैरेवामेध्यैः पादष्ठीवनिकाभ्यां च षट्पणः छार्दैमूत्रपुरीषा
दिभिर्द्वादशपणः । नाभेरूपरि द्विगुणाः । शिरसि चतुर्गुणाः
समेषु ।
विशिष्टेषु द्विगुणा. । हीनेषु अर्थदण्डाः । परस्त्रीषु द्विगुणाः।
प्रमादमदमोहादिभिरर्धदण्डाः ।
पादवस्त्रहस्तकेशावलम्बनेषु षट्पणोत्तरा दण्डाः[१]
पीडनावेष्टनाञ्जनप्रकर्षणाध्यासनेषु पूर्वस्साहसदण्डः ।
पातयित्वाऽपक्रमतोऽर्धदण्डाः।
शूद्रो येनाङ्गेन ब्राह्मणमभिहन्यात्तदस्य छेदयेत् ।
अवगुणों निष्क्रयः स्पर्शनार्धदण्डः ।
तेन चण्डालाशुचयो व्याख्याताः ।
हस्तेनावगूर्णे त्रिपणावरोद्वादशपणपरो दण्डः। पादेन द्विगुणः।
मुखोत्पादनेन द्रव्येण पूर्वस्साहसदण्ड ! प्राणाबाधिकेन मध्यमः ।
[२]काष्ठलोष्टपाषाणलोहदण्डरज्जुद्रव्याणामन्यतमेन दुःखमशो
णितमुपादधत[३]श्चतुर्विंशतिपणो दण्डः। शोणितोत्पादने द्विगुणः
अन्यत्र दुष्टशोणितात् ।
[४]मृतकल्पमशोणित घ्नतो हस्तपादपारंचिकं वा कुर्वतः पूर्व-
स्साहसदण्ड ।
[५]"पाणिपाददन्तभङ्गे कर्णनासाच्छेदने प्राणविदारणेच अन्य
व दुष्टव्रणेभ्यः।