पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/१४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१२ प्रक.] 119 - ramainaniman-marrianwrore raniwaranan ४२ प्रक, सुराध्यक्षः सुराध्यक्षस्सुराकिण्वव्यवहारान् दुर्गे जनपदे स्कन्धावारे 147 1 वा तज्जातसुराकिण्वव्यवहारिभि. कारयेत् । एकमुखमनेकमुखं वा विक्रयक्रयवशेन वा षटुतमत्ययमन्यत्र कर्तृक्रेतुविक्रेतृणां स्थापयेत्, ग्रामादनिर्णयनमसम्पातं च । सुरायाः प्रमादभयात्कर्मसु निर्दिष्टानां, मर्यादातिक्रमभया दार्याणां उत्साहभयाच्च तीक्ष्णानां लक्षितमल्प वा चतुर्भाग मर्धकुडुम्ब कुडुम्बमर्धप्रस्थं वेदितज्ञात शौचा निर्हरेयुः । पानागारेषु वा पिबेयुरसञ्चारिणः ।। निक्षेपोपनिधिप्रयोगापहृतादीनामनिष्टोपगतानां च द्रव्याणां ज्ञानार्थमस्वाभिकं कुप्यं हिरण्यं चोपलभ्य निक्षेप्तारमन्यत्र व्यपदेशेन ग्राहयेत् । अतिव्ययकर्तारमनायतिव्ययं च । न चानर्घेण कालिका वा सुरां दद्यादन्यत्र दुष्टसुरायाः । तामन्यत्र विक्रापयेत् । दासकर्मकरेभ्यो वा वेतनं दद्यात् । वाहनप्रतिपानं स्करपोषणं वा दद्यात् । पानागाराण्यनेककक्ष्याणि विभक्त शयनासनवन्ति पानो- देशानि गन्धमाल्योदकदन्त्यतुसुखानि कारयेत् । तत्रस्थाः प्रकृत्यौत्पत्तिकौ व्ययौ गूढा विद्युरागन्तूंश्च ! 1 डुव.. मर्धप्रस्थ प्रस्थ वेति ज्ञात हृताना 4 प्रकृतोत्पत्तिको, नित्यनै- मित्तिकौ इति व्या