पीनिका नागक्षिका; मोधूमवर्णा लैकुची; श्वेता वाक
ळी ; शेषा नवनीतवर्णा ।
तासां सौवर्णकुड्यका श्रेष्टा । तया कौशेयं चीनपट्टा
श्च चीनभूमिजा व्याख्याताः ।
माधुरमापरान्तकं कालिङ्गकं काशिकं बाङ्गकं वात्सकं माहि-
पकं च कार्पासिकं श्रेष्ठमिति ।
अत. परेपा रत्नानां प्रमाण मूल्यलक्षणम् ।
जाति रूपं च जानीयान्निधान नवकर्म च ।।
पुराणप्रतिसंस्कारं कमें गुह्यमुपस्करात् ।
देशकालपरीभोगं हिस्साणां च प्रतिक्रियाम् ।।
इत्यध्यक्षप्रचार कोशप्रवेश्यरत्नपरीक्षा एकादशोऽध्याय.
आदितो द्वात्रिंशः.
३० प्रक, आकर कर्मान्तप्रवर्तनम्.
आकराध्यक्षः शुल्बधातुशास्त्ररसपाकमणिरागज्ञस्तज्ज्ञसद्धो
वा तज्ज्ञातकर्मकरोपकरणसम्पन्न किट्टमूषागारभस्मलिङ्ग वाऽs-
करं भूतपूर्वमभूतपूर्व वा भूमिप्रस्तररसधातुमत्यर्थवर्णगौरवमु-
ग्रगन्धरस परीक्षेत ॥
पर्वतानामभिज्ञातोद्देशानां बिलगुहोपत्यकाऽऽलयनिगूढखाते-
ष्वन्तःप्रस्यन्दिनो जम्बूचूतताळफलपक हरिद्राभेदहरिताळक्षौद्र
1. स्करान 2 तालमनश्शिलाक्षौद्र.