उन्नतेति ॥ गिरेस्न्नतावनतभागवत्तया निम्नोन्नतप्रदेशवत्वेन हेतुना सतिमिरा तिमिरमिश्रा । समोन्नतेपु तमसोऽनवकाशादिति भावः । इयं चन्द्रिका बहुविधाभिर्भक्तिभी रचनाभिरर्पिता विन्यस्ता मत्तदन्तिनो भूनिर्भसितमिवाभाति । 'भूतिर्मातङ्गशृङ्गारे' इति विश्वः । तत्र भक्तिसहितानि गजाङ्गान्येव तिमिरभागोपमानमित्यनुसंधेयम् ॥ ६९॥
एतदुच्छवसितपीतमैन्दवं सोढुमक्षममिव प्रभारसम् ।
मुक्तषट्पदविरामञ्जसा भिद्यते कुमुदमा निवन्धनात् ॥७०॥
एतदिति ॥ एतत्कुमुदं कैरवं कर्तृ उच्छ्वसितेन पीतमुच्छवमितपीतम् , अतितृष्णयोच्छ्वस्योच्छ्वस्य पीतमित्यर्थः । इन्दोरिदमैन्दवं प्रभा चन्द्रिका सैव रसो द्रवम्तं सोढुमक्षममिवाञ्जसा मुक्तषट्पदविरावं प्रवर्तितभृङ्गनादं यथा तथा निबन्धनादा वृन्ताद्भिद्यते विकसति । कर्मकर्तरि लट् । यथा लोक कस्यचिदतिपानान्निःसहात्मन उच्चैः क्रोशत उदरं भिद्यते तथैतदिति भावः ॥ ७० ॥
पश्य कल्पतरुलम्बि शुद्धया ज्योत्स्नया जनितरूपसंशयम् ।
मारुते चलति चण्डि ! केवलं व्यज्यते विपरिवृत्तमंशुकम् ।।७१।।
पश्येति ॥ शुद्धया ज्योत्स्नया जनिता रूपसंशया अंशुकं ज्योत्स्ना वेति स्वरूपसंदहो यस्य तत्तथोक्तं कल्पतरुलम्ब्यंशुकं । हे चण्डि अत्यन्तकोपने ! गौरादित्वान्डीप् । केवलं मारुते चलति सति विपरिवृत्तं चलं सद्व्यज्यते पश्य । ज्योत्स्नासच्छायत्वान्न रूपतो विविच्यते, परंतु क्रिययेत्यर्थः ॥ ७१ ॥
शक्यमङ्गुलिभिरुद्धृतैरधः शाखिनां पतितपुष्पपेशलैः ।
पत्रजर्जरशशिप्रभालवैरेभिरुत्कचयितुं तवालकान् ॥ ७२ ॥
शक्यमिति ॥ अङ्गुलिभिरुद्धृतरुच्चितैः शाखिनामधः पतितपुष्पवत्पेशलैः कोमलैः, तथा भ्रमकरैरित्यर्थः । एभिः पत्रैर्जर्जरा शकलिता शशिप्रभा चन्द्रिका तस्या लवैः खण्डैः, तरुतलेषु पत्रान्तराललक्ष्यज्योत्स्नामण्डलैंरित्यर्थः । तवालकानुत्कचयितुं बद्धुम् । 'कच दीप्तिबन्धनयोः' इति धातोस्तुमुन्प्रत्ययः । शक्यम् , शक्या इत्यर्थः । शक्यमिति लिङ्गवचनस्य सामान्योपक्रमादित्याद्यनुपदमेवोक्तम् ७२
एष चारुमुखि ! योगतारया युज्यते तरलबिम्बया शशी ।
साध्वसादुपगतप्रकम्पया कन्ययेव नवदीक्षया वरः॥ ७३ ।।