पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/४१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३६४
[ सर्गः १७
कुमारसंभवे

कपिलयन्पिशङ्गीकुर्वन् सुरसैनिकेषु मध्ये । 'यतश्च निर्धारणम्' (पा. २।३।४१) इति सप्तमी । समन्तात्परितो जज्वाल दिदीपे ॥ ३७ ॥

  उज्जागरस्य दहनस्य निरर्गलस्य
   ज्वालावलीभिरतुलाभिरनारताभिः ।
  कीर्ण पयोदनिवहैरिव धूमसंधै-
   र्व्योमालक्ष्यत कुलस्तडितामिवोच्चैः ॥ ३८ ॥

 उज्जागरेस्येति ॥ उज्जागरस्योद्दीप्तस्य । जागर्तेः 'ऋदोरप्' (पा. ३।३|१५७) इति भावेऽप् । निरर्गलस्य निर्गतप्रतिबन्धस्य दहनस्य वह्नेरतुलाभिर्बहुलाभिरनारताभिक्षणिकाभि ज्वालावलीभिः, कीलपङ्क्तिभिः । तथा पयोदनिवहैरिव मेघसमूहैरिव धूमसंधैः, व्याप्तमिनि शेषः

तथाभूनं व्योम नभः । कर्तृ । उच्चैर्महद्भिस्तडितां विद्युतां कुलंगणैः कीर्ण 
वृतमिवाभ्यलक्ष्यत दर्शनीयं बभूव, मेघमण्डलान्तरे चमत्कारकारिणीभिः
क्षणदाभिर्नभो यथा राजति, तथा मेघमण्डलसदृशधूमसंघमण्डलान्तर्गतक्षणदासदृशज्वालावलीभिरपि
बभावित्यर्थः । भानुक्रियार्तोभयत्राप्येक एव, अतो ज्वालावलीपु क्षणदात्वेनोत्प्रेक्षितम् ॥ ३८ ॥

  गाढाभ्देयाद्वियति विद्रुतखेचरेण
   दीप्तेन तेन दहनेन सुदुःसहेन ।।
  दन्दह्यमानमखिलं सुरराजसैन्य-
   मत्याकुलं शिवसुतस्य समीपमोप ॥ ३९ ॥

 गाढादिति ॥ गाढाद्भयाद्वेतोर्वियति नभसि विद्रुता विद्राविताः, पलायिता इति यावत्। खेचरव्यादयो येन,

रव्यादयो ग्रहा अपि यावदुद्रुवुरित्य्र्र्थ्ः तथा दीप्तेन प्रदीप्तेन । तथा सुतरां दुःसहेन सोढुमशक्येन तेन दहनेन

कर्ता दन्दह्यमानं पुनःपुनरतिशयेन वा दह्यते भस्मीक्रियते तथाभूतमत एवात्याकुलमतिपीडितमखिलं

समस्तं सुरराजसैन्यं कर्तृ शिवसुतस्य कुमारस्य समीप्ं

पाठा०-१ तद्भीतितः; तत्प्रान्ततः. २ चाद्भुतसंचरेण. ३ दीर्घेण. ४ अनि-

शम्. ५ आगात्.