गाद्वायव्यास्त्रप्रयोगाग्निमित्ताद्विधुरीकृतं पीडितं विलोक्य दिव्यं लोकोत्तरं प्रभावं सामर्थ्यमतनोत् । अनेन वायव्यप्रतिरोधकं पवनाशनास्त्रमक्षिपदिति व्यज्यते । यतः स्वर्लोकनाथस्येन्द्रस्य कमलाया लक्ष्म्याः कुशले श्रेयस्येक एव हेतुर्निदानम् ॥ ३३ ॥
तेनोज्झितं सकलमेव सुरेन्द्रसैन्यं
स्वास्थ्यं प्रपद्य पुनरेव युधि प्रवृत्तम् ।
दृष्ट्वासृजद्दहनदैवतमस्त्रमिद्ध-
मुद्दीप्तकोपदहनः सहसा सुरारिः ॥ ३४ ॥
तेनेति ॥ तेन कुमारप्रभावेण सकलमेव, न तु त्यक्तभागम् । उज्झितं वायव्यास्त्रनिर्मुक्तं सुरेन्द्रसैन्यं इन्द्रसैन्यं कर्म स्वास्थ्यमविकलत्वं प्रपद्य प्राप्य पुनर्युध्येव, न त्वन्यकार्ये पलायनरूपे । एवंविधास्त्रप्रयोक्तासौ दुर्जेय इति बुद्या । पलायनप्रसक्तिशङ्कानिरासार्थमेवकारः । प्रवृत्तं युद्धव्यापाराश्रयीभूतंदृष्ट्वा । उद्दीप्तोऽनुभावसान्निध्यात्प्रदीप्तः कोप एव दहनोऽग्निर्यस्यैवंभूतः सुरारिस्तारकाः सहसा झटिति, न तु विलम्बेन । इदं सिद्धम्, न तु तत्कालसाधनीयम् । प्रदीप्तमिति वा । दहनदैवतमग्निदेवताकमस्त्रमसृजद्व्यसृजत् । 'सृज विसर्गे' इत्य- मात्तौदादिकाल्लङ् । वायव्यास्त्रपरिहारानन्तरं वह्वस्त्रमक्षिपदित्यर्थः ॥ ३४ ॥
वर्षातिकालजलदद्युतयो नभोन्ते
गाढान्धकारितदिशो घनधूमसंघाः ।
सद्यः प्रसस्रुरसितोत्पलदामभासो
दृग्गोचरत्वमखिलं न हि सन्नयन्तः ॥३५॥
वर्षेति ॥ वर्षास्वतिकाला मेचकतरा ये जलदा मेघास्तेषां द्युतिः कान्तिरिव कान्तिर्येषाम् , वर्षाकालीनमेघसदृशमेचकितभास इत्यर्थः । श्यामत्वे द्वितीय- विशेषगेनोपमिमीते-असितानां नीलानामुत्पलानां कमलानां दाम्नः सजो भा इव भा रुक् येषामत एव गाढं नितरामन्धकारिता विसंजातान्धकारीकृता दिशो
पाठा०-१ उद्गतम् ; अन्वितम्. २ युधे. ३ उच्चैःप्रकोपदहनः. ४ तत्काल-
आतजलद. ५ तत्र. ६ धुसदा हरन्तः.