पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/३९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३५०
[ सर्गः १७
कुमारसंभवे

रथं दृष्ट्वा भयेन वेपमानं कम्पमानं सुरराजस्य महेन्द्रस्य सैन्यं सेनाजनसमूहः कर्तृ । परममतुलं क्षोभं व्यथां जगाम प्राप । तदीयरथावलोकनादेव क्षोभप्राप्तिः, किं पुनस्तदीयाकृतिविलोकनादिति भावः ॥ ११ ॥

  प्रक्षुभ्यमाणमवलोक्य दिगीशसैन्यं
   शंभोः सुतं कलहकेलिकुतूहलोत्कम् ।
  उद्दामदोःकलितकार्मुकदण्डचण्डः
   प्रोवाच वाचमुपगम्य स कार्तिकेयम् ॥ १२ ॥

 प्रक्षुभ्यमाणमिति ॥ स तारको दिगीशसैन्यं देवसैन्यं प्रकर्षेण क्षुभ्यमाणं क्षाभं प्राप्नुवत् , बिभ्यदिति यावत् । क्षुभ्यतेर्दैवादिकत्वं तदाकृतिगणत्वाद्बोध्यम् । तथाभूतमवलोक्य दृष्ट्वोद्दामयोरुद्भटयोर्दोष्णोर्बाह्वोः कलितेन निहितेन कार्मुकरूपदण्डेन चण्डः सन् । कलहः सङ्ग्रामरूपो विग्रहः स एव केलिः, न तु प्रयत्नसाध्यं कर्म, तत्र यत्कुतूहलं तत्रोत्कम् , तदभिलापुकमित्यर्थः । तथा शंभोः शिवस्य सुतं पुत्रम् । अनेन तारकवीररसस्यानुभाव उक्तः । कार्तिकेयं कुमारमुपगम्य समीपं गत्वा वाचं प्रोवाचावोचत् ॥ १२ ॥

 इतः परम् 'रे' इत्यादिभिस्त्रिभिः श्लोकैर्वाचमेव प्रपञ्चयति-

  रे शंभुतापसशिशो ! बत मुश्च मुञ्च
   दोर्दर्पमत्र विरम त्रिदिवेन्द्रकार्यात् ।
  रेः किमत्र भवतोऽनुचितरतीव
   बालत्वकोमलभुजातुलभारभूतैः ॥ १३ ॥

 रे इति ॥ 'रे' इति नीचोक्तिसंबोधने । भोः शंभुतापसशिशो शंभुः शिवः स एव तापसस्तपस्वी । अनेन महाकृपणत्वं व्यज्यते । तस्य शिशो कौमारावस्थानुभवरसिक ! अत्र मयि विषये, विधीयमानमिति शेषः । दोर्दपं भुजदण्डगतवीर्यहेतुकमभिमानम् । 'दर्पोऽहंकारकस्तूर्योः' इति विश्वः । मुञ्च मुञ्च, सर्वथैव

पाठा०-१ समरकेलि. २ शंभुतान्तव शिशो. ३ दौहृद्यम्. ४ त्रिदिवेश.

५ शश्वत्. ६ असारैः; चरित्रैः. ७ बालत्वकोमलभुजक्लमभारभूतैः; बालाब्जकोमलभुजाक्रमभीरुभूतैः.