पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/३७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३२४
[ सर्गः १५
कुमारसंभवे

रणग्रहे । 'विग्रहः कायविस्तारविभागे ना रणे स्त्रियाम्' इति मेदिनी । कुतः कस्मादवकाशोऽवसरः स्यात् ? अपि तु न स्यादिति काका व्याख्येयम् । अतः सर्वथैवामुना सह त्वया न योद्धव्यं, किंतु निवर्तनीयमेवेति भावः ॥ ३७ ॥
 ननु निवर्तने पुनरपि वधशङ्केति चेत्तत्राह-

त्यजाशु ग[१]र्वं मदमूढ ! मा स्म गाः स्मरारिसूनोर्वरशक्तिगोचरम् ।
तमेव नूनं शरणं व्रजाधुना ज[२]गत्सुवीरं [३]स चिराय जीव तत् ३८

 त्यति ॥ भो मदमृढ उन्मादमूर्ख ! आशु शीघ्रं गर्वमभिमानं त्यज । स्मरारिसूनोः सेनान्याः संबन्धिनी या वरा श्रेष्ठा शक्तिरायुधं तस्या गोचरं विषयं मा स्म गा मा स्म याहि । तर्हि किं कर्तव्यमित्याह-अधुनेदानीं नूनमेव निश्चयेनैव । 'नूनमवश्यं निश्चये द्वयम्' इत्यमरः । शरणं रक्षितारम् । 'शरणं गृहरक्षित्रोर्वधरक्षणयोरपि' इति मेदिनी । तं जगत्सुवीरं सेनान्यं व्रज गच्छ । तत्तस्माद्गमनाद्धेतोः स त्वं चिराय जीव बहुकालं प्राणान्धारय, कुमारगमनं विना न तवान्यज्जीवातुरिति भावः ॥ ३८ ॥

श्रत्वेति वाचं वियतो ग[४]रीयसीं क्रोधादहंकारपरो महासुरः।
प्रकम्पिताशेषजगत्रयोऽपि स[५]न्न[६]कम्पतोच्चैर्दिवम[७]भ्यधाच्च सः ॥३९॥

 श्रुत्वेति ॥ वियत आकाशस्येत्येर्वभृतां गरीयसीमशयगुर्वी वाचं श्रुत्वा क्रोधाद्देतोरहंकारेऽभिमाने । 'गर्वोऽभिमानोऽहंकारः' इत्यमरः । परः सक्तः । 'परः श्रेष्ठादिदूरान्योत्तरे क्लीबं तु केवले' इति मेदिनी । 'आदि'शब्दसंगृहीतत्वेन सक्तिवाचकत्वं विवेचनीयम् । सोऽसुरम्तारकः प्रकर्षेण कम्पितं वेपितमशेषं समस्तं जगतां त्रयं येन तथाभूतः सन्नप्यकम्पत चकम्पे, भारत्या अत्याप्तत्वादिति भावः । अथ च दिवं स्वर्गमुच्चैरुच्चैःस्वरेणाभ्यधादचकथत् ॥ ३९ ॥
 अथ 'किम्' इत्यादिभिस्त्रिभिस्तदुतिमाह-

किं ब्रूथ रे[८] व्योमचरा महासुराः! स्म[९]रारिसूनुप्रतिपक्षवर्तिनः ।
मदीयबाणव्रणवेद[१०]ना हि साऽधुना कथं विस्मृ[११]तिगोचरीकृता ४०


  1. दर्पम्
  2. जगत्प्रवीरम्
  3. सुचिराय
  4. वरीयसीम्
  5. सः
  6. नाकम्पत; प्राकम्पत
  7. अभ्यधात्ततः; अभ्यगात्ततः
  8. हे
  9. मखारि
  10. वेदनामहोऽधुनेव
  11. विस्मृत्य गताः स्वपृष्ठतः