इत्यादीति ॥ मदान्धोऽसुरस्तारकोऽशुभोपदेशिभिरमङ्गलसूचकैरित्याद्यरिष्टैः पूर्वोक्तमहोत्पातैः पुनःपुनर्विहन्यमानोऽपि विघ्नितः क्रियमाणोऽपि यदा गताद्गमनात् । भावे निष्ठा । न न्यवर्तत न निवृत्तः तदाम्बराब्द्योम्नः सकाशान्मरुतां देवानां सरस्वती वाण्यभूत् ॥ ३२ ॥
मदान्धेति ॥ भो मदान्ध ! भुजदण्डयोर्यश्चण्डिमा प्रचण्डत्वं तेन योऽवलेपो गर्वः । 'अवलेपस्तु गर्वे स्याल्लेपने दूषणेऽपि च' इति मेदिनी, विश्वश्च । तस्मात् । पञ्चम्यास्तसिल् । हेत्वर्थे पञ्चमी । विजित्वरैर्जयनशीलैः पुरंदरादिभिः सुरैः समन्तात्परितः सनाथेन सहितेन मन्मथहन्तृसूनुना शिवपुत्रेण समं सह समरं युद्धम् , कर्तुमिति शेषः । मा गा मा याहि ॥ ३३ ॥
अथ 'गुहः-' इत्यादिभिश्चतुर्भिः कुमारविषये तारककर्तृकसमरानौचित्यमेव दर्शयति-
तत्र गुहेति ॥ भो मदान्ध! संगरे युद्धेऽभिमुखः संमुखः षड् दिनानि जातानि न्वतीतानि यस्य, जन्मदिनादारभ्यातिक्रान्तषड्दिनीक इत्यर्थः । गुहः सेनानीः । 'गुहः पाण्मातुरे गुह्ये' इति मेदिनी । असुरैदैत्यैः कर्तृभिः । निशातमोभरै रात्र्यन्धतमससमूहैर्निदाधधामा उष्णतेजाः सूर्य इव न हि नैव विषयते विमृष्यते । ल्वया समं सह तस्य संबन्धिनी विरोधिता वैरं कुतः कारणात्स्यात् ? कुमारविषयकभवत्कृतवैरनिमित्तसमरोऽनुचित एवेति भावः ॥ ३४ ॥