विलोक्येति ॥ जनैर्लोकैर्द्यावापृथिव्योर्द्यौश्च पृथिवी च तयोः । 'दिवसश्च पृथिव्याम्' इत्यत्र चकाराद्दयावादेशः । महद्विशालमन्तरमवकाशो धूलीपटलै रजोनिचयैर्भृशं बहु यथा तथा भृतं पूर्ण विलोक्य रज ऊर्ध्वतः सकाशादध उपैति किंवाधस्तः सकाशादूर्ध्वत ऊर्ध्वभागे। सार्वविभक्तिकस्तसिः । अभ्युपैति किमित्यलं पर्याप्तमतर्क्यत तर्कितम् । भावे लङ् । सर्वतो रजोव्याच्या कुत आगच्छतीति निश्चयाभावादिति भावः ॥ ३७ ॥
नोर्ध्वमिति ॥ सूच्यग्रेण सीवनद्रव्यपुरोभागेन । 'सूची तु सीवनद्रव्येऽप्याङ्गिकाभिनयान्तरे' इति मेदिनी । भेद्यैर्भेत्तुं योग्यैः । 'ऋहलो:-'(पा. ३।१।१२४) इति ण्यत् । अनेनातिसद्यस्ता द्योतिता । तथाभूतैः पृतनायाः सेनायाः । 'पृतना तु स्त्रियां सेनामात्रसेनाविशेषयोः' इति मेदिनी। रजसां चयैः समूहैः । 'चयः समूहे प्राकारमूलबन्धे समाहतौ' इति मेदिनी । सर्वत आच्छादितावृता प्राणिगणस्य जन्तुसमूहस्य चक्षुषोर्नेत्रयोः । 'लोचनं नयनं नेत्रमीक्षण चक्षुरक्षिणी' इत्यमरः । गतिः प्रसरणमूर्ध्वं नाभूत्, अधश्च नाभूत्, पुरो नाभूत्, पृष्ठतो नाभूत्, पार्श्वतोऽप्युभयतो नाभूत् । खलु निश्चयेन ॥ ३८ ॥
दिगन्तेति ॥ दिगन्तेषु या दन्त्यावलिर्गजपङ्क्तिस्तस्या दानं मदजलं तस्य हारिभिः शोषकैः । घोरध्वनितश्रवणजनितभयवशाद्दिगन्तदन्तिनोऽपि शुष्कमदजला जाता इति भावः । तथा विमानानां देवस्यन्दनानां रन्ध्रेषु जालेषु यः प्रतिनादः प्रतिध्वनिस्तेन मेदुरैः पुष्टैर्गुरुभिर्दीधैरनारतैरविद्यमानक्षणिकविरामैरनेकवाद्यानां मृदङ्गादीनां ध्वनितैर्घोषैः कृत्वा नभम्तलं कर्तृ गाढं दृढ़ जगर्ज । प्रतिननादेत्यर्थः । अन्योऽपि कस्मिंश्चित्कर्णकटुरवकारिणि सति तटस्थोऽपि प्रतिनदति