पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/३४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० २०-२४]
२९९
सेनागमनवर्णनम्

'पिशङ्गौ कद्रुपिङ्गलौ' इत्यमरः । तथा घनं सान्द्रमुन्नतमुत्पन्नम् , पर्वतेभ्य इति शेषः । घनानां मेघानां वृन्दं समूह इव । बभौ, अकालसंध्यालिप्तो मेघो यथा भाति तद्वत्सुवर्णभूमिजमपि रजो बभावित्यर्थः । अत्र पूर्णोपमालंकारः । ननु भानावाश्रयीभूते रजसि घनवृन्दत्वेनोत्प्रेक्षासंभवात् संभावनैवास्त्विति चेत्,- सत्यम्; क्रियाप्राधान्यमते रजःकर्तृकशोभायां घनवृन्दवोत्प्रेक्षापत्तेः ॥ २२ ॥

 हेमावनीपु प्रतिबिम्बमात्मनो मुहुर्विलोक्याभिमुखं महागजाः ।
 रसातलोत्तीर्णगजभ्रमात्क्रुधा दन्तप्रकाण्डप्रहृतानि तेनिरे ॥ २३ ॥

 हेमेति ॥ महागजा महान्तो दन्तिनो हेम्नः सुवर्णस्यावनीषु पृथ्वीषु पतितमात्मनः प्रतिबिम्बमभिमुखं विलोक्य रसातलात्पातालात् । 'अधोभुवनपातालं बलिसद्म रसातलम्' इत्यमरः । उत्तीर्णा उत्थिता ये गजास्तेषां भ्रमाद्भ्रान्त्या निमित्तेन, जातयेति शेषः । क्रुधा क्रोधेन । 'प्रतिघा रुट्क्रुधौ स्त्रियौ' इत्यमरः । मुहुरनुवेलं दन्ता एव प्रकाण्डाः स्तम्बाः । 'काण्डं स्तम्बे तरुस्कन्धे बाणेऽवसरनीरयोः' इति मेदिनी । तैस्तत्कर्मकानि प्रहृतानि प्रहारान् । भावे निष्टा । तेनिरे वितस्तरिरे । कर्तरि लिट् । 'अत एकहल्मध्येऽनादे-' (पा. ६।४।१२०) इत्येत्वाभ्यासलोपौ। पृथिव्यामात्मप्रतिबिम्बदर्शनेनान्यगजभ्रमवतां गजानां युक्तमेव प्रहारकरणमिति भावः । 'नान्यस्य गन्धमपि मानभृतः सहन्ते' इति गन्धस्यापि दुःसहत्वात् । किं पुनः साक्षाद्दर्शनस्य ? तद्दर्शनं तद्वति तत्प्रकारकमतद्वति तत्प्रकारकं वा, तत्र तेषां नातीव निग्रहः; मानान्धतायाः प्राधान्यात् ॥ २३ ॥

 सुजातसिन्दूरपरागपिञ्जरैः कलं चलद्भिः सुरसैन्यसिन्धुरैः ।
 शुद्धासु चामीकरशैलभूमिषु नादृश्यत स्वं प्रतिबिम्बमग्रतः ॥२४॥

 सुजातेति ॥ सुजातः शोभनो यः सिन्दूरस्य परागो रजस्तेन पिञ्जरैः पीतैः तथा कलं मन्द्रं यथा तथा चलद्भिर्गच्छद्भिः सुराणां देवानां सैन्यस्य सिन्धुरैर्गजैः कर्तृभिः । शुद्धासु निर्मलास्वपि चामीकरशैलस्य सुमेरुपर्वतस्य भूमिष्वग्रतः पतितमपि स्वं प्रतिविम्बं नादृश्यत नालोकि । कर्मणि लङ् । आधाराधेययोरेकवर्णतया पृथगभासमानत्वादिति भावः । सिन्दूरस्तनुभेदे स्यात्सिन्दूरे रक्तचूर्णके' इति मेदिनी ॥ २४ ॥

पाठा०-१ हैमावनीषु. २ गजभ्रमेण ते. ३ प्रहतानि; प्रकृतानि. ४ व्यदृश्यत.