पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/३२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० ३-७]
२७५
पित्राशंसितकुमारस्य प्रस्थानम्

स्तस्या हेतुः कारणम् , तत्कर्तेत्यर्थः । तथा समरोत्सवस्य सङ्ग्रामरूपस्योत्सवस्य 'मह उद्धव उत्सवः' इत्यमरः । इयं कर्मणि षष्ठी । संबन्धमात्रविवक्षितत्वात् । इह षाष्ठ्यन्तस्य वृत्तिगतेनापि 'श्रद्धा'शब्देन नित्यसंबन्धवशात्संबन्धं कृत्वा कृद्यो- गलक्षणा षष्ठी समर्थनीया । केचित्तु 'समरोत्सवे सः' इति विषयलक्षणसप्त- म्यन्तत्वमङ्गीकृत्य पठन्ति । तत्रापि समासवृत्तिगतस्य 'श्रद्वालु'शब्दस्य संबन्धो दुर्घट इत्यलम् । श्रद्धालु भक्तिशीलं चेतो यस्य, सङ्ग्रामश्रद्वाधायक इत्यर्थः । एवंभूतः कुमारो भक्त्या भक्तिपूर्वकं गिरिजागिरीशौ पितरावापृच्छय, 'मया गम्यते' इत्युक्त्वेत्यर्थः । दिवमभि प्रतस्थे चचाल । 'समवप्रवि-' (पा. १।३।२२ ) इत्यात्मनेपदम् ॥ ५ ॥

 देवं महेशं गिरिजां च देवीं ततः प्रणम्य त्रिदिवौकसोऽपि ।
 प्रदक्षिणीकृत्य च नाकनाथपूर्वाः समस्तास्तमथानुजग्मुः ॥६॥

 देवमिति ॥ ततोऽनन्तरम् । नाकनाथपूर्वा इन्द्रप्रमुखाः समस्तास्त्रिदिवौकवयो देवा अपि । पूर्वोक्तकुमारप्रस्थानसमुच्चायकः 'अपि'शब्दः । 'अपि संभावनाप्रश्न- शङ्कागर्हासमुच्चये' इति विश्वः । महेशं देवं गिरिजां देवीं च प्रणम्य । अथ प्रद- क्षिणीकृत्य, प्रदक्षिणौ परिक्रमणवशात्सव्यभागस्थौ कृत्वेत्यर्थः । 'ऊर्यादिच्चिडा. चश्च' (पा. १।४।६१ ) इति गतिसंज्ञकतया 'कुगतिप्रादयः' (पा. २।२।१८) इति समासत्वात् 'समासेऽनञ्पूर्वे-' (पा. ७।१।३७ ) इति क्त्वो ल्यबादेशः । तं कुमारमनु पश्चाज्जग्मुरित्यर्थः ॥ ६ ॥

 अथ व्रजद्भिस्त्रिदशैरशेषैः स्फुरत्प्रभाभांसुरमण्डलैस्तैः ।
 नेभो बभासे परितो विकीर्णं दिवापि नक्षत्रगणैरिवोग्रैः ॥ ७ ॥

 अथेति ॥ अथानन्तरं व्रजद्भिर्गच्छद्भिरत एव स्फुरत्प्रसरत्प्रभायाः कान्त्याः संबन्धि भासुरं दीप्यमानं मण्डलं चक्रवालं येषाम् । 'चक्रवालं तु मण्डलम्' इत्यमरः । तैरशषैः संपूर्णैस्त्रिदशैर्देवैर्विकीर्ण व्याप्तं नभोऽन्तरिक्षं दिवापि दिनेऽपि । उग्रैर्भासुरैर्नक्षत्रगणैर्विकीर्णमिव । बभासे । भासुरत्वरूपसाधारणधर्मेण त्रिदशः- विकिरणविशिष्टे नभसि नक्षत्रविकिरणविशिष्टत्वोत्प्रेक्षणादुत्प्रेक्षालंकारः । ननु 'उग्रः

पाठा०-१ सुरेशमुख्याः सुराः. २ अभिजग्मुः, ३ सरोषैः. ४ मण्डलभासुरैः. ५ ततः. ६ हरितोऽवकाशः.