पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/३०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० १५-१९]
२५९
कैलासधाम्नि शिवदर्शनवर्णनम्

मवसानं तस्य, मूलं कारणम् । 'मूलं कारणमूल्ययोः' इति मेदिनी। उच्चैर्महत्रिशूलमायुधविशेषं कलयन्तं दधानम् ॥ १६ ॥

 पुरातनीं ब्रह्मकपालमालां कण्ठे वहन्तं पुनराश्वसन्तीम् ।
 उद्गीतवेदां मुकुटेन्दुवर्षत्सुधाभरौघाप्लवलब्धसंज्ञाम् ।। १७ ॥

 पुरातनीमिति ॥ पुनः किंभूतम् ? मुकुटे य इन्दुश्चन्द्रस्तस्माद्वर्षन्गलन् यः सुधाभरौघोऽमृतसमूहप्रवाहस्तत्र य आप्लवः स्नानं तेन निमित्तेन लब्धसंज्ञां प्राप्तचेतनामत एवाश्वसन्तीमुजीवन्तीम् । अत एव पुनर्भूयोऽप्युद्गीतवेदां पठितश्रुतिकाम् , ब्रह्मत्वादिति भावः । पुरातनी प्राक्तनीम् । 'सायंचिरम्(पा. ४।३।२३ ) इत्यादिना पुराव्ययाट्ट्युतुटौ । टिल्वाङीप् । ब्रह्मकपालानां मालां स्रजं कण्ठे गले वहन्तम् , दधानमित्यर्थः ॥ १७ ॥

 सलीलमङ्कस्थितया गिरीन्द्रपुत्र्या नवाष्टापदवैल्लिभासा ।
 विराजमानं शरदभ्रखण्डं परिस्फुरन्त्याचिररोचिषेव ॥ १८ ॥

 सलीलमिति । पुनः किंभूतम् ? नवं यदष्टापदं हेम । 'हेमन्यष्टापदं वरे' इति मेदिनी । तस्य वली लता। 'वल्ली नु व्रततिर्लता' इत्यमरः । प्रकृत्या तु वल्लीशदस्य ह्रस्वत्वमेव । 'कृदिकारादक्तिनः' (ग० ५० ) इति दीर्घत्वम् । तस्या भा इव भा यस्याः, तद्वच्छोभमानयेत्यर्थः । तथा सलीलं सक्रीडमङ्कस्थितयाङ्कमारूढया गिरीन्द्रपुत्र्या हिमालय न्यया परितः स्फुरन्त्या प्रप्तरत्या चिररोचिषा चलप्रभया विद्युता शरदभ्रस्य शरत्कालिकमेघस्य खण्डं शकलमिव विराजमानं शोभमानम् । महेश्वरस्य शुभ्रत्वं भस्मोद्धूलनादिति विवेचनीयम् । खण्डौपम्यं च शुभ्रत्वमात्रतात्पर्येण न विरुध्यते ॥ १८ ॥

 दृप्तान्धकमाणहरं पिनाकं महासुरस्त्रीविधवत्वहेतुम् ।
 करेण गृह्णन्तमगृह्यमन्यैः पुरा स्मरप्लोषणकेलिकारम् ॥ १९॥

 दृप्तेति ॥ दृप्तोऽभिमानी योऽन्धकोऽन्धकासुरस्तस्य प्राणानां हरमपहारकम् , तद्धननसाधनमित्यर्थः । तथा महासुरास्त्रिपुरादयस्तेषां याः स्त्रियस्तासां विधवत्वं

पाठा०-१ उद्गीर्णवेदाम् ; उदीर्णवेदाम्. २ सुधाघसंप्लावन. ३ तुल्यभासा.

४ गजासुर. ५ विधवात्वहेतुम्. ६ असह्यशूलम्. ७ सुर.