पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/२९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४६
[ सर्गः ११
कुमारसंभवे

पुत्रमुपादत्ताग्रहीत् । अथ च तदङ्कतो हरोत्सङ्गात् सा देव्युपादत्त । अथ च सोऽपि हरोऽपि तस्य देव्या अङ्कादुपादत्त, इत्यनुवेलमन्योन्यग्रहणं चक्रतुरित्यर्थः ॥ २८ ॥

 दधानया नेत्रसुधैकसत्रं पुत्रं पवित्रं सुतया तयाद्रेः ।
 संश्लिष्यमाणः शशिखण्डधारी विमानवेगेन गृहाञ्जगाम ॥२९॥

 दधानयेति ॥ शशिखण्डधारी महेश्वरः सुधाया अमृतस्यैकं सत्रं सदादानम् । 'सत्रमाच्छादने यज्ञे सदादाने धनेऽपि च' इत्यमरः । नैत्रयोः संबन्धि सुधैकसत्रं येन, नेत्रयोरमृतवत् सुखदातारमित्यर्थः । तथा पवित्रं पूतम् । 'पुवः संज्ञायाम्' (पा. ३।२।१८५) इति त्रच्प्रत्ययः । तथाभूतं पुत्रं सुतं दधानया बिभ्रत्या तयाद्रेर्हिमालयस्य सुतया कन्यया पार्वत्या कत्र्र्या । संश्लिष्यमाणः स्नेहवशादालिङ्गयमानः सन् विमानस्य वेगेन गृहाञ्जगाम प्रययौ। 'गृहाः पुंसि च भूम्न्येव' इत्यमरः॥ २९ ॥

 अधिष्ठितः स्फाटिकशैलशृङ्गे तुङ्गे निजं धाम निकामरम्यम् ।
 महोत्सवाय प्रमथप्रमुख्यान्पृथून्गणाञ्शंभुरथादिदेश ॥३०॥

 अधिष्ठित इति ॥ अथानन्तरं शंभुर्महेश्वरस्तुङ्गे उन्नते स्फटिकमयः स्फाटिको यः शैलः कैलासस्तस्य शृङ्गे शिखरे । 'शृङ्गं प्राधान्यसान्वोश्च' इत्यमरः । निकामरम्यमतिमनोहरं निजं स्वीयम् । 'स्वके नित्ये निजं त्रिषु' इत्यमरः । अधिष्ठितः सन् । 'अधिशीङ्-' (पा. १।४।४६ ) इत्यादिनाधारस्य कर्मसंज्ञा । महोत्सवाय महोत्सवं कर्तुम् । 'तुमर्थाच्च-' (पा. २।३।१५) इति चतुर्थी । पृथून्महतः प्रमथप्रमुख्यान्प्रमथादीन्गणानादिदेशाज्ञापयामास ॥ ३० ॥

 पृथुप्रमोदः प्रगुणो गणानां गणः समग्रो वृषवाहनस्य ।
 गिरीन्द्रपुत्र्यास्तनयस्य जन्मन्यथोत्सवं संववृते विधातुम् ॥३१॥

 पृथ्विति ॥ अथानन्तरं पृथुर्महान् प्रमोदो हर्षो यस्य । तथा प्रकृष्टा गुणा यस्यैवविधः समग्रः संपूर्णो गणानां गणः प्रमथादीनां समूहो वृषवाहनस्य महेश्वरस्य गिरीन्द्रपुत्र्याः पार्वत्याश्च तनयस्य जन्मन्युत्सवं विधातुं कर्तुं संववृते संवृत्तः, उद्युक्त इति यावत् ॥ ३१ ॥

पाठा०-१ दत्त्वानया. २ पात्रम्. ३ तथा, ४ मौलिः; वाही. ५ गृहम्. ६ अधिष्ठित. ७ निजे. ८ धामनि कालरम्ये; धाम्नि निकामरम्ये. ९ प्रमथान्सनाथः.

१० महिम्ना स्वमुदा; प्रथिम्नां पृथक्. ११ प्रमोद. १२ प्रगुणे.