कल्लोलरुद्गतैरर्वाचीनं तटमभिद्रुतः ।
प्रीतेव तमभीयाय स्वर्धुनी जातवेदसम् ॥ ३४ ॥
कल्लोलैरिति ॥ स्वर्धुनी गङ्गा प्रीता सती। उद्गतैरानन्दादुद्वेलैस्त एवा- र्वाचीनमर्वाग्भवं तटमभिद्रुतैः पलायितैः कल्लोलैः कृत्वा तं जातवेदसमभीयायेव संमुखीबभूवेव ॥ ३४ ॥
अथाभ्युपेतस्तापार्तो निममज्जानलः किल ।
विपदा परिभूताः किं व्यवस्यन्ति विलम्बितुम् ।। ३५॥
अथेति ॥ अथानन्तरं तापेन हरतेजोजन्मनार्तः पीडितोऽत एवाभ्युपेतः संमुखमुपागतोऽनलोऽग्निः । 'किल' इति प्रसिद्वौ । निममज्ज निमग्नोऽभूत् । ननु झटित्येव किं मग्न इत्यर्थान्तरं न्यस्यति-विपदापदा परिभूता जिताः पुरुषा विलम्बितुमापव्यतीकारविलम्बभविष्णुतां सोढुं किं व्यवस्यन्युद्युञ्जते ? अपि तु नेत्यर्थः । 'प्रतीक्षते जातु न कालमार्तिः' इति न्यायादिति भावः ॥ ३५ ॥
गङ्गावारिणि कल्याणकारिणि श्रमहारिणि ।
स मग्नो निर्वृतिं प्राप पुण्यभारिणि तारिणि ॥ ३६॥
गङ्गेति ॥ सोऽग्निः कल्याणकारिण्यनेकमङ्गलविधायिनि श्रमहारिणि परि- श्रमहारके । पुण्यं भारयति जनैः संग्राहयति तस्मिन्पुण्यभारिणि । येन जनाः पुण्यभारवन्तो भवन्तीति भावः । तारिणि भवार्णवतारिणि गङ्गावारिणि गाङ्गेय- जले मग्नः स्नातः सन् निर्वृतिं सुखं प्राप, तापार्तानां वारिनिमज्जनमेव सुखैक- हेतुरिति भावः ॥ ३६ ॥
तत्र माहेश्वरं धाम संचक्राम हविर्भुजः ।
गङ्गायामुत्तरंगायामन्तस्तापविपद्धृति ॥ ३७ ॥
तत्रेति ॥ माहेश्वरं शैवं धाम तेजो हविर्भुजोऽग्नेः सकाशात्तत्र गङ्गायां संचक्राम संक्रान्तम्, लग्नमिति यावत् । अत एव किंभूतायां गङ्गायाम् ? अन्तर्मध्ये ताप एव विपत् तां धरति तथोक्तायामत एवोल्ललिता अतिवेलास्तरंगाः
पाठा०-१ उपागतैः. २ प्रीत्येव. ३ अभ्युपेत्य. ४ परिभूतः. ५ व्यवस्यति.
६ पुण्यतारिणि. ७ इद्धभङ्गायाम्. ८ अन्तस्तापविपद्भृतः; अन्तस्तापभिदाभृति.