पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/२४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९८
[ सर्गः ८
कुमारसंभवे

रचनां कर्तुमिवागतं कुतूहलं यस्य तथोक्तः सन् , कल्पवृक्षयुक्तेषु शिखरेषु, वर्तत इति शेषः । इव किम् ? त्वं पश्य । यथा कश्चिन्नीलपट्टसूत्रेण मुक्ताहारं विरलतया योजयति तथाऽयं चन्द्रोऽपि वृक्षपत्रान्तरालगतस्वीयकिरणमुक्ताफलैर्वृक्षपत्रच्छायरूपिणा नीलेन पट्टसूत्रेण च हारयष्टिं कर्तुमिवेहागत इति भावः ॥ ६८ ॥

 उन्नतावनतभाववत्तया चन्द्रिका सतिमिरा गिरेरियम् ।
 भक्तिभिर्बहुविधाभिरर्पिता भाति भूतिरिव मत्तहस्तिनः॥६९॥

 उन्नतेति ॥ हे प्रिये! गिरेरुन्नतावनतभाववत्तया सतिमिरेयं चन्द्रिका बहुविधाभिर्भक्तिभी रचनाभिरर्पिता मत्तहस्तिनो भूतिः संपदिव भाति । उपमालंकारः ६९

 एतदुच्छ्वसितपीतमैन्दवं वोढुमक्षममिव प्रभारसम् ।
 मुक्तषट्रपदविरावमञ्जसा भिद्यते कुमुदमा निबन्धनात् ॥७०॥

 एतदिति ॥ उच्छ्वसितं यथा तथा पीतमैन्दवं चान्द्रं प्रभारसं वोढुमक्षममिवैतत्कुमुदम् । मुक्तः षट्पदानां भ्रमराणां विरावः शब्दो येन तत्तथोक्तं सत् अञ्जसा झटिति । 'द्राग्झटित्यासाह्नाय' इत्यमरः । आ निबन्धनान्निरवशेषबन्धनाद्भिद्यते । सकर्मकाणामपि कर्माविवक्षयाऽकर्मकत्वात्कर्मकर्तरि लट् । अन्योऽपि बहुलमाम्रादिरसं पिबन्भिन्नोदरो भवति तद्वत् ॥ ७० ॥

 पश्य कल्पतरुलम्बि शुद्धया ज्योत्स्नया जनितरूपसंशयम् ।
 मारुते चलति चण्डिके! बलाद्व्यज्यते विपरिवृत्तमंशुकम् ॥७१।।

 पश्येति ॥ हे चण्डिके ! कल्पतरौ लम्बि लम्बायमानत्वेन वर्तमानं शुद्धया ज्योत्स्नया चन्द्रकान्त्या जनितो रूपस्य संशयः संदेहो यत्र, उभयोरपि शुक्लत्वादिति भावः । एतादृशमंशुकं वस्त्रं मारुते चलति सति विपरिवृत्तं सद्बलाद्व्यज्यते, व्यक्तत्वेन ज्ञायत इत्यर्थः । त्वं पश्य ॥ ७१ ॥

 शक्यमङ्गुलिभिरुत्थितैरधः शाखिनां पतितपुष्पपेशलैः ।
 पत्रजर्जरशशिप्रभालवैरेभिरुत्कचयितुं तवालकान् ॥ ७२ ॥

 शक्यमिति ॥ हे प्रिये ! अधः पतितपुष्पवत्पेशलैः सुन्दरैः । तथाऽङ्गुलि-

पाठा०-१ भागवत्तया. २ दन्तिनः. ३ उच्छ्वसितपीतम्. ४ सोढुम्. ५ चण्डिके

चलम्; चण्डि केवलं व्यज्यते. ६ उद्धृतैः, ७ कोमलैः. ८ अलकम् ; अलकाः.