सांध्यमस्तमितशेषमातपं रक्तलेखमपरा बिभर्ति दिक्।
सांपरायवसुधासशोणितं मण्डलाग्रमिव तिर्यगुज्झितम् ॥५४॥
सांध्यमिति ॥ अपरा प्रतीची दिक् । अस्तमितं शेषं च सांध्यम् । तथा रक्तालेखा पङ्क्तिर्यस्य । तथा सांपराया सांग्रामिकी या वसुधा तत्र सशोणितं सरक्तमत एव तिर्यगुज्झितं त्यक्तं मण्डलस्याग्रमिव स्थितमातपं बिभर्ति ॥ ५४ ॥
यामिनीदिवससंधिसंभवे तेजसि व्यवहिते सुमेरुणा ।
एतदन्धतमसं निरङ्कुशं दिक्षु दीर्घनयने ! विजृम्भते ॥५५॥
यामिनीति ।। हे दीर्घनयने प्रिये ! यामिनीदिवसयोः संधौ संध्यायां संभवति तथोक्ते सांध्ये तेजसि सुमेरुणा व्यवहितेऽन्तर्हिते सति निरङ्कुशं निरर्गलमेतत्पुरोवर्त्यन्धतमसं गाढं तमो दिक्षु विजृम्भते प्रसरति, संध्यापि विलीनेत्यर्थः ॥५५॥
नोर्ध्वमीक्षणगतिर्न चाप्यधो नाभितो न पुरतो न पृष्ठतः ।
लोक एव तिमिरौघवेष्टितो गर्भवास इव वर्तते निशि ॥५६॥
नोर्ध्वमिति ॥ निशि तिमिरौघेण वेष्टित एष लोको गर्भवास इव वर्तते । गर्भस्थित इव प्रतिभासमानत्वादिति भावः । यत ईक्षणानां लोकनेत्राणां गतिः प्रसर ऊर्ध्वं न; तथाधोऽपि न; तथाऽभितो वामदक्षिणोऽपि न; तथा पुरतो न; पृष्ठतश्च न, गर्भस्थितवज्जनैः कुत्रापि नावलोक्यत इत्यर्थः । ततो निशावृत्तौ गर्भवृत्तित्वोत्प्रेक्षा ॥ ५६ ॥
शुद्धमाविलमवस्थितं चलं वक्त्रमार्जवगुणान्वितं च यत् ।
सर्वमेव तमसा समीकृतं धिङ्महत्त्वमसतां हृतान्तरम् ॥५७॥
शुद्धमिति ॥ शुद्धं निर्मलमाविलं मलिनमवस्थितं स्थिरं चलं चरिष्णु वक्रं कुटिलमार्जवगुणेनर्जुत्वगुणेनान्वितं सरलं च यत् तत्सर्वमेव तमसा समीकृतम् । तमोव्याप्त्या पृथगभासमानत्वादिति भावः । तथा हि-असतां कादाचित्कमपि महत्त्वं धिक् । यतो हृतान्तरं समीकृतसदसगुणम् । अत्र सामान्येन विशेषसमर्थनपोऽर्थान्तरन्यासः ॥ ५७ ॥
पाठा०-१ संपरायवसुधा सशोणितं. २ उत्थितम्. ३ निरर्गलम्. ४ तिमि- रोल्ब. ५ हतान्तरम् ; अनन्तराम्.
B