पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/२३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० २५-३१]
१८७
पार्वत्या सह शिवस्य गन्धमादनगमनम्

 इतीति ॥ शंकरः इत्येवमभौमं स्वर्गीयं तथा पार्थिवं भौमं च सुखम् । दयि- तासखः सन्ननुभूय कदाचित्समय आतपे सूर्ये लोहितायति रक्तवर्णे जायमाने सति । 'लोहितादिडाज्भ्यः क्यष्' (पा. ३।१।१३) इति क्यष् । गन्धमादनस्य गिरेर्वनं व्यगाहत, तत्र क्रीडितुं जगामेत्यर्थः ॥ २८ ॥

 तत्र काञ्चनशिलातलाश्रयो नेत्रगम्यमवलोक्य भास्करम् ।
 दक्षिणेतरभुजव्यपाश्रयां व्याजहार महधर्मचारिणीम् ॥२९॥

 तत्रेति ॥ तत्र गन्धमादनवने स हरो भास्कर सूर्य नेत्रगम्यं नेत्रप्राप्यम् , नेत्रावलोक्यमिति यावत् । अवलोक्य विचार्य । काञ्चनं सौवर्ण शिलातलमाश्रयो यस्य तथोक्तः सन् । दक्षिणेतरो भुजो वामभुजस्तत्र व्यपाश्रयः संबन्धो यस्या- स्ताम् , तत्र स्थितामित्यर्थः । सहधर्मचारिणीं पत्नीं पार्वतीं व्याजहारोक्तवान् । 'व्याहार उक्तिर्लपितम्' इत्यमरः ॥ २९ ॥

 पद्मकान्तिमरुणत्रिभागयोः संक्रमय्य तव नेत्रयोरिव ।
 संक्षये जगदिव प्रजेश्वरः संहरत्यहरसावहर्पतिः ॥ ३० ॥

 पद्मेति ॥ हे प्रिये ! अमौ पुरोवर्यहर्पतिः सूर्यः । अरुणौ त्रिभगौ तृतीयांशौ ययोस्तयोस्तव नेत्रयोरिव पद्मकान्ति कमलशोभां संक्रमय्य तुलयित्वा, कमल- प्रतिनिधित्वेन रात्रौ तव नेत्रकमल एव स्थास्यत इति विचार्येति भावः। संक्षये प्रलये प्रजेश्वरो ब्रह्मा जगदिव। अहो दिनं संहरति, स्वस्यास्तंगतत्वादिति भावः । अत्र गम्योत्प्रेक्षा ॥ ३०॥

 सीकरव्यतिकरं मरीचिभिर्दूरयत्यवनते विवस्वति ।
 इन्द्रचापपरिवेषशून्यतां निर्झरास्तव पितुर्वजन्त्यमी ॥ ३१ ॥

 सीकरेति ॥ हे प्रिये ! अवनते नम्रीभूनते, अस्तंगत इति यावत् । विवस्वति सूर्ये मरीचिभिः स्वकिरणैः सह सीकराणां जलकणानाम् । 'सीकरोऽम्बुकणाः स्मृताः' इत्यमरः । व्यतिकरं संबन्धं दूरयति दूरं कुर्वति सति । अमी पुरोवर्तिन- स्तव पितुर्हिमालयस्य निर्झराः प्रवाहा इन्द्रचापेन यः परिवेषः परिधिः। 'परि- वेषस्तु परिधिरुपसूर्यकमण्डले' इत्यमरः । तेन शून्यास्तेषां भावस्तत्ता तां व्रजन्ति,

पाठा०-१ अरुणान्तभागयोः. २ संगमय्य. ३ धूनयति. ४ प्रसवितुः. ५ ते.