स्म सिषेवे। तथापि तस्यां प्रतिकूलवर्तिन्यामपि सत्यां पिनाकिनो हरस्य रतये प्रमोदाय बभूव, प्रियायाः प्रतिकूलव्याप रैरपि प्रियः प्रसन्न एवाभूदित्यर्थः । तस्य मुग्धास्वभावबोधकुशलत्वादिति भावः ॥ २ ॥
कैतवेन शैयिते कुतूहलात्पार्वती प्रति मुखं निपातितम् ।
चक्षुरुन्मिषति सस्मितं प्रिये विद्युताहतमिव न्यमीलयत् ॥३॥
कैतवेनेति ॥ पार्वती कर्त्री। प्रिये हरे कुतूहलाकैतवेन मिथ्यैव शयिते सुप्ते सति, किमियं कुर्यादित्यभिप्रायेणेति भावः । मुखं प्रेयोमुखं लक्ष्यीकृत्य निपातितं निक्षिप्तम् , 'किमयं स्वपिति जागर्ति वा?' इत्यभिप्रायादिति भावः । चक्षुः स्वनेत्रं कर्म । अथ च प्रिया इत्याकाङ्क्षावशात्पुनरपि संबध्यते । सस्मितं समन्दहासं यथा स्यात्तथोन्मिषत्युज्जाग्रति सति विद्युताहतमिव प्रतिहतमिवेस्युत्प्रेक्षा । न्यमीलयत् , मुद्गयति स्मेत्यर्थः ॥ ३ ॥
नाभिदेशनिहितः सकम्पया शंकरस्य रुरुधे तया करः ।
तेद्दुकूलमथ चाभवत्स्वयं दूरमुच्छ्वसितनीविवन्धनम् ॥४॥
नाभिदेश इति ॥ नाभिदेशे निहितः स्थापितः, नीवीमोचनार्थमित्ति भावः । शंकरस्य करस्तया पार्वत्या सकम्पया सत्या रुरुधे प्रतिरुद्धः। कर्मणि लिट् । अथ च तद्दुकूलं तस्या दुकूलं वस्त्रं कर्तृ । स्वयमात्मना, नतु प्रेरकनियोगात् दूरमतिशयितमुच्छ्रसितमुद्घाटितं नीव्या बन्धनं यस्य तथोक्तमभवत्, सात्त्विकभावादिति भावः ॥ ४ ॥
एवमालि! निगृहीतसाध्वसं शंकरो रहसि सेव्यतामिति ।
सा सखीभिरुपदिष्टमाकुला नास्मरत्प्रमुखवर्तिनि प्रिये ॥५॥
एवमिति ॥ सा पार्वती कर्त्री। हे आलि हे सखि पार्वति ! त्वया रहसि निगृहीतं त्यक्तं साध्वसं भयं यस्मिन्कर्मणि यथा तथा शंकरः सेव्यतामित्येवंभूतं सखीभिः कर्त्रीभिः । 'न लोक-' (पा. २।३।६९) इति षष्ठीनिषेधः । उपदिष्टमुपदेशम्। भावे निष्ठा । प्रिये प्रमुखवर्तिनि सत्याकुला संभ्रान्ता सती नास्सरत् ॥५॥
पाठा०-१ शयने. २ विद्युतेव निहितम्, ३ सशङ्कया. ४ तन्नितम्बमभवत्तदा; तन्नितम्बमथ चाभवत्.