पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/१९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० १-५]
१४७
सर्वेषामुमायामतिस्नेहवत्त्वम्

 वैवाहिकः कौतुकसंविधानैर्गृहे गृहे व्यग्रपुरंध्रिवर्गम् ।
 आसीत्पुरं सानुमतोऽनुरागादन्तःपुरं चैककुलोपमेयम् ॥ २॥

 वैवाहिकैरिति ॥ अनुरागात् प्रीतिवशात् । गृहे गृहे प्रतिगृहम् । वीप्सायां द्विर्भावः। विवाहःप्रयोजनमेषामिति वैवाहिकानि तैः। 'प्रयोजनम्'(पा.५।१।१०९) इति ठक् । कौतुकसंविधानैर्मङ्गलार्थसंपादनैर्व्यग्रो व्याकुलः पुरंध्रिवर्गः कुटुम्बिनीजनो यास्मिंस्तत्तथोक्तं सानुमतोऽद्रेः पुरं बाह्यमोषधिप्रस्थमन्तःपुरमवरोधनं चैककुलेनैकगृहेण वोपमेयमासीत् । 'सजातीयगणे गोत्रे गृहेऽपि कथितं कुलम्' इति विश्वः । सर्वेषामपि स्वगृह एवेदं शोभनं वर्तत इत्यभिमानोऽभूदित्यर्थः । एतेन हिमाद्रेः प्रजाराग उक्तः । अत्र सर्वं संपन्नमेवेत्यर्थः ॥२॥

 संतानकाकीर्णमहापथं तच्चीनांशुकैः कल्पितकेतुमालम् ।
 भासोज्ज्वलत्काञ्चनतोरणानां स्थानान्तरं स्वर्ग इवाबभासे ॥ ३॥

 संतानकेति ॥ संतानकैर्मन्दारकुसुमैराकीर्णा आस्तृता महापथा राजवीथयो यस्मिंस्तत्तथोक्तम् । चीनांशुकैः पट्टवस्त्रैः कल्पिता विरचिताः केतुमाला ध्वजपङ्क्तयो यस्य तत्तथोक्तम् । काञ्चनतोरणानां भासा प्रभयोज्वलद्दीप्यमानं तत्पुरं स्थानान्तरं मेरोरन्यत्र स्थितः स्वर्ग इवाबभासे । उत्प्रेक्षालंकारः ॥ ३ ॥

 एकैव सत्यामपि पुत्रपङ्क्तौ चिरस्य दृष्टेव मृतोत्थितेव ।
 आसन्नपाणिग्रहणेति पित्रोरुमा विशेषोच्छ्वसितं बभूव ॥ ४ ॥

 एकैवेति ॥ पुत्राश्च दुहितरश्च पुत्राः । 'भ्रातृपुत्रौ स्वसृदुहितृभ्याम्' (पा.१।२।६८) इत्येकशेषः । 'पुत्रौ पुत्रश्च दुहिता च' इत्यमरः । तेषां पङ्क्तौ सङ्घे सत्यामप्युमैकैव चिरस्य दृष्टेव चिरान्नष्टलब्धेव मृतोत्थितेव मृत्वा पुनरुत्पन्नेवासन्नपाणिग्रहणासन्नविवाहेति । भर्तृगृहं गमिष्यतीति हेतोरित्यर्थः । पित्रोर्मातापित्रोः । 'पिता मात्रा' (पा.१।२।७०) इत्येकशेषः। विशेषेणोच्छ्वसितं प्राणभूता बभूव, पुमपत्यादप्यधिकप्रेमास्पदमभूदित्यर्थः ॥ ४ ॥

 अङ्काद्ययावङ्कमुदीरिताशीः सा मण्डनान्मण्डनमन्वभुङ्क्त ।
 संबन्धिभिन्नोऽपि गिरेः कुलस्य स्नेहस्तदेकायतनं जगाम ॥५॥


पाठा०-१ चतुःपथम्. २ भासा ज्वलत्. ३ स्थानान्तरस्वर्गः. ४ चिरेण,

५ उपोढपाणि.