पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/१८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० ६६-७२]
१३९
हिमवतो जगत्पावनत्ववर्णनम्

अच्छिन्नामलसंतानाः समुद्रोर्म्यनिवारिताः । पुनन्ति लोकान्पुण्यत्वात्कीर्तयः सरितश्च ते ॥ ६९ ।।

अच्छिन्नेति । अच्छिन्ना अविच्छिन्ना अमलाश्च संतानाः प्रबन्धाः प्रवाहाच यासां तास्तथोक्ताः समुद्रोर्मिभिरनिवारिताः, पारगमनादन्तःप्रवेशाच्चेति भावः । ते तव कीर्तयः सरितश्च गङ्गादयः पुण्यत्वात्पवित्रत्वाल्लोकान्पुनन्ति पावयन्ति । लोकपावनाः खलु पुण्यश्लोका इति भावः । केवलप्रकृतविषयस्तुल्ययोगितालंकारः॥ ६९॥- यथैव श्लाघ्यते गङ्गा पादेन परमेष्ठिनः । प्रभवेण द्वितीयेन तथवोच्छिरसा त्वया ॥ ७० ॥

यथैवेति ॥ गङ्गा भागीरथी । प्रभवत्यस्मादिति प्रभवस्तेन कारणेन परमे तिष्ठतीति परमेष्ठिनो विष्णोः। परमे किप्प्रत्यय: । 'तत्पुरुषे कृति बहुलम्' (पा. ६।३।१४) इत्यलुक् । '- परमेबर्हिर्दिव्यग्निभ्यः स्थः' (उ.स.४।१०) इति षत्वम् । पादेन चरणेन यथैव श्लाघ्यते प्रशस्यते तथैव द्वितीयेन प्रभवेणोच्छिरसा त्वया श्लाघ्यते । हरिचरणवत्तीर्थस्यापि तीर्थभूतस्त्वमिति भावः ॥ ७० ॥ तिर्यगृर्ध्वमधस्ताच व्यापको महिमा हरेः । त्रिविक्रमोद्यतस्यासीत्स तु स्वाभाविकस्तवं ।। ७१ ॥

तिर्यगिति ॥ तिर्यगूर्ध्वमधस्ताच्च व्यापकः, सर्वव्यापीत्यर्थः । महिमा महत्त्वं हरेर्विष्णोस्त्रिपु विक्रमेषूद्यतस्य सत आसीत् । त्रिविक्रमोद्यतस्यापि कदाचिदेव, न तु सर्वदेत्यर्थः । तव तु व्यापको महिमा स्वाभाविकः, नित्यसिद्ध इत्यर्थः ॥७॥

यज्ञभागभुजां मध्ये पदमातस्थुषा त्वया । उच्चैहिरण्मयं शृङ्ग सुमेरोर्वितथीकृतम् ।। ७२ ।। यज्ञेति ॥ यज्ञभागभुजामिन्द्रादीनां मध्ये पदमातस्थुषा निहितवता त्वयोच्चैरुन्नतं-

हिरण्यस्य विकारो हिरण्मयम् । 'दाण्डिनायनहास्तिनायन-' (पा. ६।-

४।१७४) इत्यादिनिपातनात्साधु । सुमेरोः शृङ्गं शिखरम् प्राधान्यं च ध्वन्यते। 'शृङ्गं प्राधान्यसान्वोश्च' इत्यमरः । वितथीकृतं व्यर्थीकृतम् । तस्य यज्ञभागा-

पाठा०-१ समुद्रोर्मिनिवारिताः. २ लोकम्. ३ प्रभावेण. ४ च. ५ तथा.