पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/१८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३६
[ सर्गः ६
कुमारसंभवे

जङ्गममिति ॥ हे मुनयः ! द्विरूपं जंगमस्थावरात्मकत्वाद्विप्रकारकमपि मे वपुर्विभक्तानुग्रहं विभज्य कृतप्रसादं मन्ये। कुतः ? जङ्गमं वपुर्वो युष्माकं प्रैष्यभावे कैंकर्ये, स्थितमिति शेषः । 'प्रादूहोढोढ्येषैष्येषु वृद्धिर्वक्तव्या' (वा० ३६०५) इति वृद्धिः । 'नियोज्यकिंकरप्रैष्यभुजिष्यपरिचारकाः' इत्यमरः । स्थावरं वपुश्चरणाङ्कितम् । अयमेव हि महाननुग्रहो दासजनस्य यत्कर्मसु नियोजनं मूर्धनि पादन्यासश्चेति तात्पर्यार्थः ॥ ५८ ॥

भवत्संभावनोत्थाय परितोषाय मूर्च्छते । अपि व्याप्तदिगन्तानि नाङ्गानि प्रभवन्ति मे ॥ ५९॥

भवदिति ॥ व्याप्ता दिगन्ता यैस्तानि व्याप्तदिगन्तानि, महान्त्यपीत्यर्थः । मे ममाङ्गानि भवत्संभावनोत्थाय युष्मदनुग्रहजन्याय मूर्च्छते व्याप्नुवते परि- तोषाय न प्रभवन्ति न पर्याप्नुवन्ति । अलमर्थयोगाच्चतुर्थी । यथा महत्स्वपि मद्गात्रेषु न माति, तथा मे हर्षों वर्धत इत्यर्थः ॥ ५९ ॥

न केवलं दरीसंस्थं भास्वतां दर्शनेन वः । अन्तर्गतमपास्तं मे रजसोऽपि परं तमः ॥ ६० ॥

नेति ॥ भास्वतां तेजस्विनां विवस्वतां च वो युष्माकं दर्शनेन केवलं दरीसंस्थं

गुहागतं तमो ध्वान्तरूपमेव नापास्तम् , किंतु मेऽन्तर्गतमन्तरात्मगतं

रजसो रजोगुणात्परमनन्तरं तमोऽज्ञानरूपमप्यपास्तम् । रजस्तु पादन्यासैरेवापास्तमिति भावः । प्रसिद्वैर्भास्वद्भिर्बाह्यं तमोऽपास्यते, एभिस्त्वान्तरमपीति व्यतिरेको व्यज्यते ॥ ६० ॥

कर्तव्यं वो न पश्यामि स्याच्चेत्किं नोपपद्यते । मन्ये मत्पावनायैव प्रस्थानं भवतामिह ॥ ६१ ॥

कर्तव्यमिति ॥ कर्तव्यं कार्य वो युष्माकं न पश्यामि, निःस्पृहत्वादिति भावः । अथ स्याञ्चेद्विद्येत यदि, किं नोपपद्यते किं नाम न संभवति ? सर्व सुलभमेवेत्यर्थः ।

अथवा किमत्र प्रयोजनचिन्तयेत्याह-मत्पावनाय मच्छोधनायैव

पाठा०-१ अभिव्याप्त. २ उपदिश्यते. ३ शङ्के. ४ इदम्. टिप्प.-1 तथा चोक्तं भागवते-'न अम्मयानि तीर्थानि न देवा मृच्छिलामयाः। ते पुनन्त्युरुकालेन दर्शनादेव साधव:' इति ।

.