पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/१४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
left
right
center

श्लो० १८-२४]पार्वतीदुश्चरतपोवर्णनम् ९५

 तथेति ॥ सवितुः सूर्यस्य गभस्तिभिः किरणैस्तथा पूर्वोक्तप्रकारेणातितप्तं संतप्तं तस्या इदं तदीयं मुखं कमलश्रियं कमलस्य शोभा दधौ प्राप; यथा रवितापात्कमलं न म्लायति प्रत्युत विकसनि तथा तदीयं मुखमासीदिति भावः । किंत्वस्य मुखस्य दीर्घयोरपाङ्गयोः केवलं नेत्रान्तयोरेव शनैःशनैर्मन्दमन्दं श्यामि- कया कालिन्ना पदं स्थानं कृतम् , तयोः सौकुमार्यादित्यर्थः ॥ २१ ॥

अयाचितोपस्थितमम्बु केवलं रसात्मकस्योडपतेश्च रश्मयः |
बभूव तस्याः किल पारणाविधिर्न वृक्षवृत्तिव्यतिरिक्तसांधनः २२

 अयाचितेति || अयाचितोपस्थितमप्रार्थितोपनतं केवलमम्बूदकं रसात्मक- स्यामृतमयस्योडूनां नक्षत्राणां पतिश्चन्द्रस्तस्य रश्मयश्च तस्याः पार्वत्याः पारणा- विधिरभ्यवहारकर्म बभूव, तावन्मात्रसाधनकोऽभूदित्यर्थः | साध्यसाधनयोर- भेदेन व्यपदेशः साधनान्तरव्यावृत्त्यर्थः | किलेति प्रसिद्धौ | वृक्षाणां या वृत्ति- र्जीवनोपायस्तद्व्यतिरिक्तं साधनमुपायो यस्य स तथोक्तः पारणाविधिर्न बभूव | वृक्षोऽप्ययाचितोपस्थितेन मेघोदकेनेन्दुकिरणैश्च जीवतीति प्रसिद्धम् , अम्बिकापि तावन्मात्रमवालम्बतेत्यर्थः || २२ ||

निकामतप्ता विविधेन वग्न्हिना नभश्चरेणेन्धनसंभृतेन मा |
तपात्यये वारिभिरुक्षिता नवैर्भुवा सहोष्माणममुश्चदूर्ध्वगम् || २३ ||

 निकामेति || विविधेन , पञ्चविधेनेत्यर्थः | नभश्चरेण खैचरेण आदित्य- रूपेणेत्यर्थः | इन्धनसंभृतेन काष्ठसमिद्धेन वह्निना निकाममत्यन्तं तप्ता साम्बिका तपात्यये ग्रीष्मान्ते, प्रावृपीत्यर्थः | नवैर्वारिभिरुक्षिता सिक्ता सती भुवा पञ्चा- ग्नितप्तया सहोर्ध्वगमूर्ध्त्रप्रसृतमूष्माणं बाप्पममुञ्चत् | 'ग्रीप्मोष्मबाष्पमुष्माणम्' इति यादवः || २३ ||

स्थिताः क्षणं पक्ष्मसु ताडिताधराः पयोधरोत्सेधनिपातचूर्णिताः |
वलीषु तस्याः स्खलिताः प्रपेदिरे चिरेण नाभिं प्रथमोदबिन्दवः २४

 स्थिता इति || उदकस्य बिन्दव उदबिन्दवः | 'मन्यौदन-' (पा. ६|३|६७) इत्यादिनोदकशब्दस्योदादेशः | प्रथमे उदबिन्दवः | प्रथमविशेषणाद्विन्दूनां विरलस्वं बहुवचनान्नातिविरलस्वं च गम्यते | तथा च चिरत्व-नाभ्यन्तरगमन-


पाठा०--१ वृक्षवृत्तिः, २ साधनम्. ३ च.