कुसुमेति ॥ हे कुसुमायुधपत्नि रते! तव भर्ता चिराच्चिरं दुर्लभो न भविष्यति, किंत्वचिरमेव सुलभो भविष्यतीत्यर्थः । किंच शृणु, तत्कर्मेति शेषः । येन कर्मणा स ते भर्ता हरलोचनस्यार्चिर्ज्वाला। 'ज्वाला भासो न पुंस्यर्चिः' इत्यमरः । तस्मिन् शलभत्वं पतङ्गत्वं गतः । 'समौ पतङ्गशलभौ' इत्यमरः ॥४०॥
तदेव कर्मोपाचष्टे-
अभिलाषमुदीरितेन्द्रियः स्वसुतायामकरोत्प्रजापतिः ।
अथ तेन निगृह्य विक्रियामभिशप्तः फलमेतदन्वभूत् ।। ४१ ।।
अभिलाषेति ॥ उदीरितेन्द्रियः प्रेरितेन्द्रियः, स्मरेणेति शेषः । प्रजापतिर्ब्रह्मा स्वसुतायां सरस्वत्यामभिलाषमनुरागमकरोत् । अथ तेन प्रजापतिना विक्रियामिन्द्रियविकारं निगृह्य निरुध्याभिशप्तः सन् । एतत्फलं दाहात्मकं स्वकर्मफलमन्वभूत् ॥ ४१ ॥
शापावधिरपि तेनैवोक्त इत्याह श्लोकद्वयेन-
परिणेष्यति पार्वतीं यदा तपसा तत्प्रवणीकृतो हरः ।
उपलब्धसुखस्तदा स्मरं वपुषा स्वेन नियोजयिष्यति ॥४२॥
इति चाह म धर्मयाचितः स्मरंशापावधिदां सरस्वतीम् ।
अशनेरमृतस्य चोभयोर्वशिनश्चाम्बुधराश्च योनयः ॥ ४३ ॥
परिणेष्यतीति ॥ इतीति च ॥ धर्मेण धर्माख्यप्रजापतिना याचितःप्रार्थितः स भगवान्ब्रह्मा । तपसा कारणेन तस्यां पार्वत्यां प्रवणीकृतोऽभिमुखीकृतो हरः शिवो यदा पार्वती परिणेष्यत्युद्वक्ष्यति तदोपलब्धसुखः प्राप्तानन्दः सन् । स्मरं
पाठा०-१ स योजयिष्यति. २ स्मरशापान्तभवाम्. टिप्प०-1 प्रजापतेः सुताभिलाषविषये तु---'उदीरय पितरा जारमामगं' (क०
७. ६.१०) इति पठ्यते, ऋक्संहिताया ऐतरेय ब्राह्मणे तु–'प्रजापतिर्वै स्वां दुहितरमभ्यध्यायत् दिवमित्यन्य आहुरुषसमित्यन्येतामृश्यो भूत्वा रोहितंभूतामभ्त्यैत्' इति च पठ्यते । अत्र विषये जैमिनिसूत्रभाष्यवार्तिककारास्तु-'प्रजापतिस्तावत् प्रजापालनाधिकारादादित्य एवोच्यते, स च अरुणोदयवेलायामुषसमुद्यन्नभ्यैत् । सा तदागमनादेवोपजायतइति तद्दुहितृत्वेन व्यपदिश्यते । तस्यां चारुणकिरणाख्यबीजनिक्षेपात् स्त्रीपुरुषयोगवदुपचार इति व्याचख्युः । तस्यैतद्विसंवादिप्रवादस्स याथातथ्ये त्वभियुक्ता एव शरणम् ।