पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ कुमारसंभव - महाशिवपुराणयोः अनन्तपुष्पस्य मधोर्हि चूते द्विरेफमाला सविशेषसङ्गा । प्रभामहत्या शिखयेव दीप- स्त्रिमार्गयेव त्रिदिवस्य मार्गः । संस्कारवत्येव गिरा मनीपी तया स पूतश्च विभूषितश्च । मन्दाकिनी सैकतवेदिकाभिः सा कन्दुकैः कृत्रिमपुत्रकैश्च । रेमे मुहुर्मध्यगता सखीनां क्रीडारसं निर्विशनीव बाल्ये । तां हंसमालाः शरदीव गङ्गा महौषधिं नक्तमिवात्मभासः । स्थिरोपदेशामुपदेशका प्रपेदिरे प्राक्तनजन्मविद्याः । मध्येन सा वैदिविलग्नमध्या वलित्रयं चारु बभार बाला । आरोहणार्थं नवयौवनेन कामस्य सोपानमिव प्रयुक्तम् । अन्योन्यमुत्पीडयदुत्पलाक्ष्याः स्तनद्वयं पाण्डु तथा प्रवृद्धम् । मध्ये यथा श्याममुखस्य तस्य मृणालसूत्रान्तरमप्यलभ्यम् । अपत्ये पार्वतीत्याख्ये सर्वसौभाग्यसंयुते । मधोरनन्तपुष्पस्य चूते हि श्रमरावलिः | विशेषसंगा भवति सहकारे मुनीश्वरः । प्रभामहत्या शिखयेव दीपो भवनस्य च । त्रिमार्गव सन्मार्गस्तद्रगिरिजया गिरिः । पूतो विभूषितश्चापि स बभूव तया गिरिः । संस्कारवत्यैव गिरा मनीषीव हिमालयः | गंगा सैकतवेदीभिर्बाल्ये रेमे मुहुर्मुहुः । कन्दुकैः कृत्रिमैः पुत्रैः सखीमध्यगता च सा | www wwwwwwwww अथ देवी शिवा सा चोपदेशसमये मुने ! | पपाठ विद्याः सुप्रीत्या यतचित्ता च सद्गुरोः । प्राक्तना जन्मविद्यास्तां शरदीव प्रपेदिरे | हंसालिः स्वर्णदीनक्तमात्मभासो महौषधिम् । वित क्षीणमध्यां च त्रिवलीमध्यराजिताम् | स्थलपद्मप्रतीकाशपादयुग्मवराजिताम् । मृणालायतपर्यन्तवाहुयुग्ममनोहराम् । राजीव कुड्मलप्रख्यौ घनपीनौ दृढस्तनौ । ब्रह्मोवाच- एकदा त्वं शिवज्ञानी शिवलीलाविदां वरः । wwww हिमाचलगृहं प्रीत्याऽगमस्त्वं शिवप्रेरितः ।