पृष्ठम्:कीदृशं संस्कृतम्?.djvu/१८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१७२) भवति नतु दुर्योधार्य ज्ञानमार्ग विरोधाय। ईदृशैः नियमैः संस्कृतं काठनीकृतं येन ज्ञानवृद्धिः सर्वथा अवरोधिता | ईश्वरज्ञानं अपि अवरोधितं लौकिकशानं अपि । संस्कृतशाः "कूपमण्डूका" इति शब्देन सत्क्रियन्ते । किं संस्कृतशाः सदा एव "कूपमण्डूकाः" स्थास्यन्ति, अथवा संसारस्य प्रगत्या सह एकीभूय अग्रेसराः भविष्यन्ति । अद्यतन- - • अस्य पुस्तकस्य तृतीयाध्याये सुस्पष्टीकृतं अस्माभिः यत् कुतः केवलं चतुर्लकाराः भवितव्याः दशलकाराणां स्थाने अनद्यतन भेदं अवलम्ब्य लकार - विभागः स्थातुं न शक्नोति । 'कृत्रिमभेदः' अयं, अत एव शीघ्रं दूरीकरणीयः । संसारस्य कस्या- श्चित् अपि भाषायां कालभेदः अनेन प्रकारेण न क्रियते, अत एव व्यावहारिक दृष्ट्या सर्वथा त्याज्यः । अनेकानि प्रमाणानि दत्तानि अस्माभिः स्वपक्षपोषणे । तानि सर्वाणि अवलोकनीयानि तत्र | संस्कृतकाठिन्यस्य भीषणतायाः प्रदर्शनाय अपि 'डुकृञ्' धातोः सर्वाणि रूपाणि दत्तानि अस्माभिः । तानि प्रायः २५१२ रूपाणि भवन्ति । एकस्य धातोः २५१२ रूपाणि भवन्ति तदा १९४४ घातूनां कियन्ति रूपाणि परस्मैपदे आत्मनेपदे च भविष्यन्ति ? बहवः धातवः उभयरूपाः भवन्ति । अस्माभिः गणना कृता यद १९४४ धातूनां दशलकारेषु प्रायः ३६ लक्षरूपाणि भविष्यन्ति । एकस्य धातोः अपि सर्वाणि रूपाणि पण्डिताः स्मर्त्तन शक्नुवन्ति तदा का कथा बालकानाम् ? अनेन सुस्पष्टं भवति यत् घांतूनां प्रायः ३६ लक्षरूपाणि भवन्ति । इदं विहाय विविध-नाम-स्थान - भाव-जातिवाचकादि- संज्ञानां सर्वनामसंज्ञानां, विशेषणानां शत-शानच्-फानच्, तव्यत्, तव्य अनीयर् इत्यादिप्रत्ययान्तशब्दानां रूपाणि भवन्ति ।