पृष्ठम्:कीदृशं संस्कृतम्?.djvu/१८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१६९) काचित् अपि हानिः न अस्ति । अस्य अयं आशयः यत् वाक्येषु सन्धिविषयः इच्छाघीनत्वं प्राप्नोति । यदि कश्चित् पुरुषः वाक्येषु सन्धि न करोति तदा स लेखः अपि व्याकरणसम्मतः भविष्यति। परं दुःखदः अयं समाचारः यत् अद्य कश्चित् अपि पण्डितः न मन्यत यः सन्धिरहितानि वाक्यानि लिखति मापते वा । इदं इदानोन्तनानां पण्डितवर्थ्याणां दुराग्रहमात्र एव। यदि ते वाक्येषु सन्धि वैकल्पिकं इच्छाधीन चा मन्यन्ते तदा अस्य विरोधस्य कः अर्थः । अस्माकं तु इदं निश्चितं मतं व्यस्ति यत् वाक्येषु सन्धिः चैकल्पिकः मन्येत चेत्, तथापि न्यूनातिन्यूनं २५ वर्षपर्यन्तं तस्य प्रयोग. पुस्तकेषु भाषणेषु अकार्यः । नवीन सस्कृत साहित्य सन्धिरहितं प्रकाशितं स्यात् । एवमेव प्राचीन साहित्य अपि यत् प्रकाशितं स्यात् तत् अपि सन्धिरहितं प्रकाशितं भवेत् अनेन महीयान् लाभः भवितुं अर्हति । अहं विचारयामि यत् इदं कार्य क्रियेत चेत् तदा २५ वर्षाभ्यन्तरे संस्कृतं जनभाषा भवितुं भर्हति पूर्ववत् । राष्ट्रभाषा तु ५ वर्षाभ्यन्तरे भवितुं अर्हति । सन्धिरहितं संस्कृतं अत्यन्तसरल अस्ति । इंदशं संस्कृतं सर्वे जनाः शीघ्रतया शातुं शक्नुवन्ति । भारतस्य प्रायः सर्वाः प्रान्तीयभाषा संस्कृतात् निस्सृताः । म्यूनातिम्यूनं सर्वासु प्रान्तीय भाषासु संस्कृतस्य महीयान् प्रभावः विद्यते । प्रायः सर्वासु भाषासु संस्कृतस्य अक्षय्य- शब्दकोषः वर्त्तमानः अस्ति । तासु भाषासु संस्कृतशन्दाः स्वरुपे विरूपे या प्रयुज्यन्ते । यथा संस्कृतभापार्या निवेदनं इति कथ्यते । अन्यासु भाषासु अर्थात प्रान्तीय मासु निवेदनशब्दः प्रयुक्तः भवति । भेदः वस्तुतः कश्चित् अपिन अस्ति । भन्यासु प्रान्तीय भाषासु नपुंसकलिङ्गस्य चिह्नं न दीयते यत् संस्कृतभाषायां