पृष्ठम्:कीदृशं संस्कृतम्?.djvu/१५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१३४) , (३) व्याख्या - द्विवचनं निस्सारितं स्यात् इदं आस्ती अस्माकं निश्चितं मतम् । परं द्विवचनस्य ज्ञानाय प्रदर्शनाय वा एकः अन्यः अणि उपायः भवितुं अहंति बहुवचनान्तंशब्दैः शब्दस्थ प्रयोगः कृत: स्यात् यथा 66 सह उभय द्विजना: 'आगच्छन्ति १३ अथवा उभयजनाः इदं कार्यं कुर्वन्ति " । वस्तुतः अस्य उपायस्य अपि आवश्यकता न प्रतीयते, यतो हि प्रसङ्गेन सर्व ज्ञातं भवति । यथा संसारस्य अन्यासु भाषासु अवलोक्यते यासु द्विवचनं नास्ति । यथा तत्र भवति तत् एव संस्कृतभाषायां अपि भविष्यति । संस्कृतभाषां अपवादरूपेण स्थातुं न शक्नोति । (४) व्याख्या - संस्कृतज्ञेषु एका शङ्का भवितुं अर्हति । सामान्यभूतकाले लङ् लकारस्य प्रयोगः अङ्गीकृतः अस्माभिः । बहवः विद्वांसः लुङ्लकारस्य प्रयोगं स्वीकर्त्तुं शक्नुवन्ति यतो हि 'लुङ्लकारस्य प्रयोग: सामान्यभूतकाले भवति एव । परं अस्मिन् विपये अस्माकं विशेषनिवेदनं इदं अस्ति । प्रथमं तु निवेदितं अस्माभिः यत् अद्यतन - अनद्यतनभेदं अवलम्ब्य लकारेषु कस्यचित् विभागस्य आवश्यकता नास्ति । यदि इदं संशोधनं क्रियते विद्वद्भिः भाषासारल्याय येन संस्कृतभाषा शीघ्राति-. शीघ्रं देशस्य राष्ट्रभाषा भवेत् तदा लङ् लुङ् लकारयोः कश्चित् अपि भेद न स्थातुं शक्नोति । लङ् लकारस्य रचना प्रयोगः चा सरलः भवति सार्वधातुकप्रत्यययोगवशात् । लुदलकारस्य निर्माण आर्धधातुकप्रत्यययोगवशात् कठिनं भवति । तथापि यदि पण्डितसमाजः लुङ्लकारस्य प्रयोगं लङ्लकारस्य स्थाने अङ्गी- कुर्यात् तदा काचित् अपि आपत्तिः हानिः वा नास्ति ।