श्रीवैखानसे भगवच्छास्र काश्यपीये जानकाण्डे दोषविहीन लौकिकं तत्कौतुकौत्सवाचर्चा बिम्बाना स्थानादन्यत्र तदालये प्रतिष्ठाप्य यथालाभमर्चयेत् । पूर्वार्चित बिम्बं दोषविहेिनं यस्त्यजेत् स पापीयान् भवति । प्रथमे तरुणालये सद्य अर्चितुमिच्छन् अलब्धे यथोत्ते कौतुके बिम्बे यथोक्तं तद्यावत्पुनः लभेत तावत् ध्रुवबेरस्योक्तवृक्षरश्वत्थेन वा यथालाभमानेन कृतं बिम्बं प्रतिष्ठाप्यार्चयति । परिवारदेबानाञ्च तद्भिम्बं सन्न्यस्य तत्तद्भपाणि यथोक्तं या देवेश दध्यौ कुम्भञ्च सर्ववाद्यघोषयुतं समानीय बिम्बं श्वभ्र तद्दक्षिणे कुम्भञ्च सन्न्यस्य त्रीहिभिस्तण्डुलैर्वा पुरतो दण्डवत्पङ्गतिं कृत्वा क्षीरघृतमधु सिद्धार्थादकाक्षतोदक 'गन्धोदककुशोदकै : पूर्णान् कलशान् पा उदकपूर्णकलशानुतरादे च सन्न्यस्याभ्यच्र्य ‘शन्नो देवी, अग्न आयाहेि, अग्निमीले, पूतस्तस्य, इमा ओषधयः, अभित्त्वा शूर, चत्वारेि वा' गेित्युक्त्वा क्रमेण तैः सप्तभिः कलशैः तदुपस्नानैः ‘वारीश्चतस्र’ इति देवेश 2-संस्नाप्य तदद्रव्यैः कुम्भञ्च प्रोक्ष्य शुद्धोदकेन देवं पुनः संस्नाप्य प्लोतवस्त्रेण विमृज्य वस्रोतरीयाभरणगन्धशाल्यैरलङ्कत्य पाद्याचैरर्चयेत् । औत्सवादिबहुजेरै सह प्रतिष्ठा चेत् स्नपन पृथगेव विधीयते । भिन्ने गर्भालये ‘तदलाभे च कुम्भपूजनस्नपनशयनानि यथोक्तहोमञ्च पृथगेव कुर्यात् । सर्वालङ्कारयुते शयनस्थाने धान्यराशिं कृत्वा बैल्वफलको न्यस्य तदूर्वे च अण्डज पक्षिपिञ्छकृतं मुण्डजं कापसकृतमाविकादि मृगरोमकृतं रोमज सिंहटयाघ्रादिचर्मकृतं चर्मज कौशेयकृतं वामजं, एतान्युपर्युपरि क्रमेण शयनान्यास्तरेत्। तदलाभे पञ्च वस्राणि वा शिरपादयोरुपानञ्च कृत्वा शयनमभ्युक्ष्य पुष्पाण्यवकीर्य विष्णुसूक्तन देवेशं कुम्भमप्यादाय तच्छयने समारोप्याभिमुखे तण्डुलेषु सुवर्णसूत्रं तदलाभे कुतपादितन्तु सन्न्यस्य पुण्याहं 1. च. कुशोदकगन्धोदकैः 2. देवेशं संस्नाप्य. 3. च. प्लोतेन वसेत्रण. ग . नववत्रेण 4. च. तद्भेदे च. 5. रोमर्ज चर्मजं वामजमिति त्रीणि पदानि पृथक् पृथक् लक्षणवाक्यानि निविष्टानि दृश्यन्ते, च. कोशे. 6. च. कुतपादिसूत्रं वा .